सुधामुचः वाचः-प्रश्न-उत्तर

                                               CBSE Class 12  संस्कृत कोर

एनसीईआरटी प्रश्न-उत्तर
पाठ - 6 सुधामुचः वाचः ‌‍


अनुप्रयोगः

1. अधोलिखितानाम् संबधितपंक्तिनाम् समुचितम् योजनम् कुरूत-

'अ' स्तम्भः'ब' स्तम्भः
(i) करणं परोपकरणं येषां(क) हुतं च दत्तं च सदैव तिष्ठति।
(ii) तथा चतुर्भिः पुरुषः परीक्ष्यते(ख) यद्यस्ति किं मृत्युना?
(iii) जलं जलस्थानगतं च शुष्यति(ग) सुबद्धमूलाः निपतन्ति पादपाः
(iv) सद्विद्या यदि किं धनैरपयशो(घ) केषां न ते वन्द्याः?
(v) वदनं प्रसादसदनं सदयं हृदयं(ङ) भवन्ति मायाविषु ये न मायिनः।
(vi) शिक्षा क्षयं गच्छति कालपर्ययात्(च) नृपेष्वमात्येषु च सर्वसम्पदः।
(vii) सदानुकूलेषु हि कुर्वते रतिम्(छ) सुधामुचो वाचः।
(viii) व्रजन्ति ते मूढधियः पराभवं(ज) त्यागेन शीलेन गुणेन कर्मणा।

उत्तरम्-

'अ' स्तम्भः'ब' स्तम्भः
(i) करणं परोपकरणं येषां(घ) केषां न ते वन्द्याः?
(ii) तथा चतुर्भिः पुरुषः परीक्ष्यते(ज) त्यागेन शीलेन गुणेन कर्मणा।
(iii) जलं जलस्थानगतं च शुष्यति(क) हुतं च दत्तं च सदैव तिष्ठति।
(iv) सद्विद्या यदि किं धनैरपयशो(ख) यद्यस्ति किं मृत्युना?
(v) वदनं प्रसादसदनं सदयं हृदयं(छ) सुधामुचो वाचः।
(vi) शिक्षा क्षयं गच्छति कालपर्ययात्(ग) सुबद्धमूलाः निपतन्ति पादपाः।
(vii) सदानुकूलेषु हि कुर्वते रतिम्(च) नृपेष्वमात्येषु च सर्वसम्पदः।
(viii) व्रजन्ति ते मूढधियः पराभवं(ङ) भवन्ति मायाविषु ये न मायिनः।

2.  संस्कृतभाषायाम् प्रश्नानाम् उत्तराणि एकपदेन लिखत-

  1. वन्द्यानां जनानां मुखं कीदृशं भवति?
  2. केषां वाणी सुधामयी कथिता?
  3. कालपर्ययात् का क्षयं गच्छति?
  4. कीदृशाः पादपाः अपि निपतन्ति?
  5. सुवर्णस्य परीक्षणं कतिभिः प्रकारैः भवति?
  6. पवित्रे मनसि केषाम् आवश्यकता न भवति?
  7. मृत्योः अपि कष्टतरं किम् भवति?
  8. कस्यां सत्याम् अन्यैः धनैः प्रयोजनं न भवति?
  9. केषु मायिनः इति भवितव्यम्?
  10. यः अधिपं साधु न उपदिशति स कः उच्यते?

उत्तरम्-

  1. प्रसादसदनम्
  2. वन्द्यानाम्
  3. शिक्षा
  4. सुबद्धमूलाः
  5. चतुर्भिः
  6. तीर्थानाम्
  7. अपयशः
  8. सद्विद्यायाम्
  9. मायाविषु
  10. किंसखा

3.  निम्नलिखितशब्देषु सन्धिं कुरुत परिवर्तनसंबधित नियमान् लिखत च -

लोभः + चेत्लोभश्चेत् श्
ii. सत् + विद्या..............................
iii. इव + इषवः..............................
iv किम् + प्रभुः..............................
v. सदा + अनुकूलेषु..............................
vi. यदि + अस्ति..............................
vii. धनैः + अपयशः..............................
viii. सम् + श्रणुते..............................
ix. शठाः + तथाविधान्..............................
x. नृपेषु + अमात्येषु..............................

उत्तरम्-

i. लोभश्चेत् श्
ii. सद्विद्यात् + द्
iii. इवेषवःअ + इ  ए
iv किंप्रभुःम्  ं (अनुस्वार)
v. सदानुकूलेषुआ + अ  आ
vi. यद्यस्तिइ  य्
vii. धनैरपयशः र्
viii. संशृणुतेम्    ं 
ix. शठास्तथाविधान् स्
x. नृपेष्वमात्येषुउ  व्

4. निम्नलिखित विग्रहशब्दान् योजित्वा समासपदानि लिखत-

विग्रहपदानि समस्तपदम्
(i) न गुणेन=.
(ii) कुत्सितः सखा=.
(iii) न संवृत्ताङ्गान्=.
(iv) कुत्सितः प्रभुः=.
(v) शोभना महिमा=.
(vi) मूढा धीः येषां ते=.
(vii) प्रसादस्य सदनम्=.
(viii) दयया सहितम्=.
(ix) कालस्य पर्ययात्=.
(x) सर्वाः च ताः सम्पदः=.
(xi) निघर्षणं च छेदनं च तापः च ताडनम् च=.
(xii) सुधां मुञ्चन्ति इति=.

उत्तरम्-

विग्रहपदानि समस्तपदम्
(i) न गुणेन=  अगुणेन  
(ii) कुत्सितः सखा=  किंसखा  
(iii) न संवृत्ताङ्गान्= असंवृत्ताङ्गान् 
(iv) कुत्सितः प्रभुः=  किंप्रभुः  
(v) शोभना महिमा=  सुमहिमा  
(vi) मूढा धीः येषां ते=  मुढधियः  
(vii) प्रसादस्य सदनम्=  प्रसादसदनम्  
(viii) दयया सहितम्=  सदयम्  
(ix) कालस्य पर्ययात्=  कालपर्ययात्  
(x) सर्वाः च ताः सम्पदः=  सर्वसम्पदः  
(xi) निघर्षणं च छेदनं च तापः च ताडनम् च= निघर्षणच्छेदनतापताडनानि 
(xii) सुधां मुञ्चन्ति इति=  सुधामुच: 

5. निम्नपङ्कतीनां भावम् ग्रहित्वा पाठात् संबधितपंक्तिम् लिखत-

  1. मनुष्यस्य जीवने यदा लोभस्य भावना आगच्छति तदा तस्य अन्ये अवगुणाः महत्त्वहीनाः भवन्ति।
  2. परनिन्दासमं निकृष्टं पातकं किमपि न अस्ति।
  3. ये शठे शठतापूर्वकं न व्यवहरन्ति ते अविवेकिनः संसारे सफलाः न भवन्ति।
  4. यः स्वहितैषिणः वार्तां सम्यक् न शृणोति सः योग्यः नृपः न भवति।
  5. यस्य समीपे श्रेष्ठा विद्या भवति, तस्य कृते अन्यधनानाम् आवश्यकता नास्ति यतो हि विद्याधनं सर्वधनप्रधानम्।
  6. यः स्वस्वामिने सत्परामर्शं न ददाति सः योग्यः सचिवः (अमात्यः) भवितुम् न शक्नोति।

उत्तरम- 

  1. लोभश्चेदगुणेन किम्?
  2. पिशुनता यद्यस्ति किं पातकैः?
  3. व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।
  4. हितान्न यः संशृणुते स किंप्रभुः?
  5. सद्विद्या यदि किं धनैः?
  6. स किंसखा साधु न शास्ति योऽधिपम्?

6. निम्नश्लोकानाम् भावार्थं साहयताशब्दै: पूरयत-

  1. ये जनाः कपटिषु .. आचरणं न कृत्वा सरलतया एव व्यवहरन्ति ते .. सदैव तिरस्कृताः, उपेक्षिताः भवन्ति। यथा बाण : अनावृतं शरीरं .. विनाशयन्ति तथैव  .. अकुटिलान् जनान् .. तान् विनाशयन्ति। ( प्रविश्य, कपटस्य, शठाः, मूढधियः, वञ्चयित्वा)
  2. यः नृपाय .. ददाति स एव योग्यः अमात्यः। यः राजा हितोपदेशकस्य मन्त्रिणः उपदेशं .. सः एव योग्यः स्वामी। यत्र राजा मन्त्रिणश्च परस्परं .. सर्वकार्यं सम्पादयन्ति, .. राज्ये एव सर्वासां .. निवासः भवति। ( स्वीकरोति, सम्पत्तीनां, सत्परामर्शं, तस्मिन्, विश्वसन्तः)
  3. ते जनाः सर्वत्र .. भवन्ति येषां जीवनं परोपकाराय एव भवति। वस्तुतः तेषां जीवनस्य प्रमुखं लक्ष्यम् एव .. अस्ति। ते सदैव अमृतवर्षिणीं मधुरां च .. वदन्ति। तेषां वदनम् प्रसन्नतायाः .. इव प्रतीयते। तेषां हृदयं .. भवति।। (वन्दनीयाः, निवासस्थानम्, वाणीम्, दयापूर्णम्, परोपकारः)
  4. कालः परिवर्तनशीलः। सततप्रवहमाणेन कालेन सह विद्या अपि शनैः शनैः .. भवति। भौगोलिक परिवर्तनकारणात् कदापि .. वृक्षाः अपि विच्छिन्नाः भूत्वा नश्यन्ति। जलस्य गन्तव्यं स्थानमपि कालेन .. भविष्यति परं यत्किमपि .. अर्थात् दानरूपेण दीयते यत् च .. अर्थात् यज्ञाग्नौ हविष्यरूपेण दीयते, एते .. तिष्ठतः। (स्थिरमूलकाः, दत्तम्, विस्मृता, सततम्, जलहीनं, हुतम्)

उत्तरम्-

  1. ये जनाः कपटिषु   कपटस्य   आचरणं न कृत्वा सरलतया एव व्यवहरन्ति ते   मूढधियः   सदैव तिरस्कृताः, उपेक्षिता: भवन्ति। यथा बाणाः अनावृतं शरीरं   प्रविश्य   विनाशयन्ति तथैव   शठाः   अकुटिलान् जनान्   वञ्चयित्वा   तान् विनाशयन्ति।
  2. यः नृपाय   सत्परामर्शं   ददाति स एव योग्यः अमात्यः। यः राजा हितोपदेशकस्य मन्त्रिणः उपदेशं  स्वीकरोति  सः एव योग्यः स्वामी । यत्र राजा मन्त्रिणश्च परस्परं   विश्वसन्तः   सर्वकार्यं सम्पादयन्ति,   तस्मिन्   राज्ये एव सर्वासां   सम्पत्तीनां   निवासः भवति ।
  3. ते जनाः सर्वत्र   वन्दनीयाः  भवन्ति येषां जीवनं परोपकाराय एव भवति। वस्तुतः तेषां जीवनस्य प्रमुखं लक्ष्यम् एव   परोपकारः   अस्ति। ते सदैव अमृतवर्षिणीं मधुरां च  वाणीम्  वदन्ति। तेषां वदनम् प्रसन्नतायाः   निवासस्थानम्   इव प्रतीयते। तेषां हृदयं   दयापूर्णम्   भवति।
  4. कालः परिवर्तनशीलः। सततप्रवहमाणेन कालेन सह विद्या अपि शनैः शनैः   विस्मृता   भवति। भौगोलिक परिवर्तनकारणात् कदापि   स्थिरमूलकाः   वृक्षाः अपि विच्छिन्नाः भूत्वा नश्यन्ति। जलस्य गन्तव्यं स्थानमपि कालेन   जलहीनं   भविष्यति परं यत्किमपि   दत्तम्   अर्थात् दानरूपेण दीयते यत् च  हुतम्  अर्थात् यज्ञाग्नौ हविष्यरूपेण दीयते, एते   सततम्   तिष्ठतः।

7. कोष्ठकात् शुद्धः अर्थः चीयताम्-

i. प्रसादः(कृपा, भवनम्)
ii. सुधा(अमृतम्, चूर्णम्)
iii. शुचिः(शीलम्, पवित्रम्)
iv. पातकम्(पतनम्, पापम्)
v. इषवः(इच्छाः, बाणाः)
vi. निशिताः(नष्टाः, तीक्ष्णाः)
vii. कनकम्(सुवर्णम्, अन्नम्)
viii. तापः(रुग्णः, ऊष्मा)
ix. ताडनम्(कुट्टनम्, दण्डम्)
x. निघर्षणम्(घोषणम्, घर्षणम्)

उत्तरम्-

i. प्रसादःकृपा
ii. सुधाअमृतम्
iii. शुचिःपवित्रम्
iv. पातकम्पापम्
v. इषवःबाणाः
vi. निशिताःतीक्ष्णाः
vii. कनकम्सुवर्णम्
viii. तापःऊष्मा
ix. ताडनम्कुट्टनम्
x. निघर्षणम्घर्षणम्

8. अधोलिखितशब्दानाम् पर्यायपदम् मन्जूषाया: आधारे उचितशब्दं चित्वा लिखत-

शराः अविवेकिनः कर्णेजपता मूर्खबुद्धयः परनिन्दा सचिवः मन्त्री बाणाः आननम् निकेतम् मुखम् गृहम्
(i) वदनम् 
(ii) पिशुनता 
(iii) सदनम् 
(iv) अमात्यः 
(v) मूढधियः 
(vi) इषवः 

उत्तरम-

(i) वदनम्आननम्मुखम्
(ii) पिशुनताकर्णेजपतापरनिन्दा
(iii) सदनम्निकेतम्गृहम्
(iv) अमात्यःसचिवःमन्त्री
(v) मूढधियःअविवेकिनःमुर्खबुद्धयः
(vi) इषवःशराःबाणाः

9. निम्नरिक्तस्थानानि उचितविभक्तिपदै: पूरयत-

  1. .. सति गुणेन प्रयोजनं न भवति। (लोभस्य, लोभे)
  2. .. सत्याम् धनस्य आवश्यकता नास्ति। (सदविद्यायां, सद्विद्यायाः)
  3. परनिन्दायाः भावः यदि जीवने आगतः तदा .. प्रयोजनं न भवति। (पातकैः, पातकानाम्)
  4. ये .. सरलतया व्यवहरन्ति ते सफलतां न लभन्ते। (धूर्तजनेभ्यः धूर्तजनेषु)
  5. योग्यः नृपः .. ध्यानेन हितं आकर्णयति। (आप्तजनात्, आत्मजनेन)
  6. अपयशः यदि जीवने, किं  ..। (मृत्योः मृत्युना)

उत्तरम्-

  1. लोभे सति गुणेन प्रयोजनं न भवति।
  2. सद्विद्यायां सत्याम् धनस्य आवश्यकता नास्ति।
  3. परनिन्दायाः भावः यदि जीवने आगतः तदा पातकैः प्रयोजनं न भवति।
  4. ये धूर्तजनेषु सरलतया व्यवहरन्ति ते सफलतां न लभन्ते।
  5. योग्यः नृपः आप्तजनात् ध्यानेन हितं आकर्णयति।
  6. अपयश: यदि जीवने, किं मृत्युना

10. धातुप्रत्ययान् योजित्वा रिक्तस्थानानि पूरयत -

  1. विद्या दत्ता (प्रवृद्ध + टाप्) .. भवति।
  2. अष्टावक्रः जनकस्य सभां (प्र+विश् + ल्यप्) .. ज्ञानगर्वितान् पण्डितान् अपश्यत्।
  3. रात्रिः (सम् + वृ + क्त) ..। किमर्थं बहिः (गम् + तुमुन्) .. इच्छसि?
  4. नाहं (दा + क्त) .. सम्पत्तिं पुनः आददामि।
  5. साधोः शीलं सर्वत्र (वन्द्+अनीयर्) .. भवति।
  6. (पिशुन + तल्) .. मानवहृदयस्य दौर्बल्यम् एव।
  7. (विनम्र + तल्) .. तु अलङ्करणं नरस्य।
  8. देवालयं (गम् + क्त्वा) .. तेन दरिद्रेभ्यः फलानि (वि + तृ + क्त) ..
  9. नश्वरे संसारे (रम् +क्तिन्) .. मा भवतु।
  10. मृगेषु (नि + शि + क्त) .. शराः न प्रयोक्तव्याः।

उत्तरम-

ध्यातव्य:- धातुप्रत्यय योजनाय हेतु शब्दरूपज्ञानम् आवश्यकम् अस्ति यथा बालक, लता, फल, कवि आदि

  1. विद्या दत्ता प्रवृद्धा भवति।
  2. अष्टावक्रः जनकस्य सभां प्रविश्य ज्ञानगर्वितान् पण्डितान् अपश्यत्।
  3. रात्रिः संवृत्ता किमर्थं बहिः गन्तुम् इच्छसि?
  4. नाहं दत्तां सम्पत्तिं पुनः आददामि।
  5. साधोः शील सर्वत्र वन्दनीयं भवति।
  6. पिशुनता मानवहृदयस्य दौर्बल्यम् एव।
  7. विनम्रता तु अलङ्करणं नरस्य।
  8. देवालयं गत्वा तेन दरिद्रेभ्यः फलानि वितीर्णानि
  9. नश्वरे संसारे रतिः मा भवतु।
  10. मृगेषु निशिताः शराः न प्रयोक्तव्याः।