राष्ट्रचिन्ता गरीयसी-प्रश्न-उत्तर
CBSE Class 12 संस्कृत कोर
एनसीईआरटी प्रश्न-उत्तर
पाठ - 3 राष्ट्रचिन्ता गरीयसी
अनुप्रयोगः
1. निम्नशब्दानाम् उच्चारणं अभिनयपूर्वकं उच्चै: कुरुत -
परिक्रम्य, आकाशम् उद्वीक्ष्य, आरुह्य, उपविश्य, प्रणम्य, प्रविश्य, आसनाद्, उत्थानम्।
उत्तरम्-
- परिक्रम्य = मञ्च पर चारों ओर घूमकर परिक्रमा का अभिनय कीजिए।
- आकाशम् उद्वीक्ष्य = आकाश की ओर ऊपर देखने का अभिनय कीजिए, मानों ऊपर से कोई आवाज सुनने का प्रयत्न कर रहे हों।
- आरुह्य = मञ्च पर ऊपर चढ़ने का अभिनय करें।
- उपविश्य = बैठने का अभिनय करें।
- प्रणम्य = चरणों में प्रणाम, निवेदन करने (झुकने) का अभिनय करें।
- प्रविश्य = प्रवेश करने (रंगमंञ्च पर आने) का अभिनय करें।
- आसनाद उत्थाय = आसन से उठने का अभिनय करें।
2. अत्र अनेके भावा: मञ्जूषायां सन्ति। निम्नपङ्क्तिभिः सह उचितं भावं मेलयत, अभिनयपूर्वकं च पठत-
मञ्जूषा
आश्चर्यम्, आशीर्वादः, आदेशः, क्रोधः, चिन्ता, प्रार्थना, उपदेशः, जिज्ञासा, परामर्शः, उत्सुकता |
पङ्क्तयः | भावाः |
यथा- (i) भद्राः! त्वरध्वम्, त्वरध्वम् | आदेशः |
(ii) इतः इतः देवः! | .............. |
(iii) कथमधुना अपि कौमुदीमहोत्सवः न प्रारब्ध:? | .............. |
(iv) आर्य! आर्यचाणक्यं द्रष्टुमिच्छामि। | .............. |
(v) अहो राजाधिराजमंत्रिणः विभूतिः! | .............. |
(vi) उत्तिष्ठ, उत्तिष्ठ वत्स! विजयताम्। | .............. |
(vii) दुर्गसंस्कारः प्रारब्धव्यः। | .............. |
उत्तरम्-
पङ्क्तयः | भावाः |
(i) भद्राः! त्वरध्वम्, त्वरध्वम् | आदेशः |
(ii) इतः इतः देवः! | प्रार्थना |
(iii) कथमधुना अपि कौमुदीमहोत्सवः न प्रारब्ध:? | क्रोध: |
(iv) आर्य! आर्यचाणक्यं द्रष्टुमिच्छामि। | उत्सुकता |
(v) अहो राजाधिराजमंत्रिणः विभूतिः! | आश्चर्यम् |
(vi) उत्तिष्ठ, उत्तिष्ठ वत्स! विजयताम्। | आशीर्वादः |
(vii) दुर्गसंस्कारः प्रारब्धव्यः। | परामर्शः |
3. अधोलिखितप्रातिपदिकानां प्रथमाविभक्तौ एकवचने सम्बोधने च एकवचने रूप लिखत-
प्रातिपदिकम् | प्रथमा-एकवचने | सम्बोधन-एकवचने |
(i) आर्य | .................... | .................... |
(ii) भद्र | .................... | .................... |
(iii) देव | .................... | .................... |
(iv) वत्स | .................... | .................... |
(v) वृषल | .................... | .................... |
(vi) वैहीनरि | .................... | .................... |
उत्तरम्-
प्रातिपदिकम् | प्रथमा-एकवचने | सम्बोधन-एकवचने |
(i) आर्य | आर्यः | आर्य ! |
(ii) भद्र | भद्रः | भद्र ! |
(iii) देव | देवः | देव ! |
(iv) वत्स | वत्सः | वत्स ! |
(v) वृषल | वृषल: | वृषल ! |
(vi) वैहीनरि | वैहीनरिः | वैहिनरे ! |
4. निम्नपदेषु प्रकृतिप्रत्ययविभागं संयोग च कुरु-
(क) श्रोतुम् | = | ................ + तुमुन् |
(ख) अभि + युज् + णिच् + तुमुन् | = | ................ |
(ग) अव + लोक + तुमुन् | = | ................ |
(घ) द्रष्टुम् | = | ................ |
(ङ) वि + ज्ञा + णिच् + तुमुन् | = | ................ |
(च) अनु + ................... + तुमुन् | = | अनुग्रहीतुम् |
(छ) उप + आ + ................ + तुमुन् | = | उपालब्धुम् |
उत्तरम्-
(क) श्रोतुम् | = | श्रु + तुमुन् |
(ख) अभि + युज् + णिच् + तुमुन् | = | अभियोजयितुम् |
(ग) अव + लोक + तुमुन् | = | अवलोकयितुम् |
(घ) द्रष्टुम् | = | दृश् + तुमुन् |
(ङ) वि + ज्ञा + णिच् + तुमुन् | = | विज्ञापयितुम् |
(च) अनु + ग्रह् + तुमुन् | = | अनुग्रहीतुम् |
(छ) उप + आ + लभ् + तुमुन् | = | उपालब्धुम् |
5. अधोलिखितेषु वाक्येषु क्तान्तविशेषणानि योजयत-
- समिद्भिः .................... छदिप्रान्तः।
- .................... भित्तयः।
- भवद्भिः एव प्रोत्साह्य .................... वृषलः।
- वृषल! स्वयम .................... राज्ञाम् एते दोषाः सम्भवन्ति।
- सुगाङ्गप्रासादस्य उपरि .................... प्रदेशाः संस्क्रियन्ताम्।
- अयम् .................... एव देवः चन्द्रगुप्तः।
- ततः प्रविशति आसनस्थः .................... चिन्तां नाटयन् चाणक्यः।
- म्लेच्छबलेन .................... पर्वतकपुत्रः मलयकेतुः अस्मान् अभियोक्तुम् उद्यमः।
उत्तरम्-
- समिद्भिः अतिनिमितः छदिप्रान्तः।
- जीर्णाः भित्तयः।
- भवद्भिः एव प्रोत्साह्य कोपितः वृषलः।
- वृषल! स्वयम् अनभियुक्तानाम् राज्ञाम् एते दोषाः सम्भवन्ति।
- सुगाङ्गप्रासादस्य उपरि स्थिताः प्रदेशाः संस्क्रियन्ताम्।
- अयम् आगतः एव देवः चन्द्रगुप्तः।
- ततः प्रविशति आसनस्थः स्वभवनगतः चिन्तां नाटयन् चाणक्यः।
- म्लेच्छबलेन परिवृतः पर्वतकपुत्रः मलयकेतुः अस्मान् अभियोक्तुम् उद्यमः।
6. अधोलिखितवाक्यानाम् हेतु वाच्यपरिवर्तनसम्बन्धित वाक्यानि पाठात् दृष्ट्वा लिखत-
- प्रभवः निष्प्रयोजनम् अधिकारिणः न आह्वयन्ति।
- (भवान्) अस्मान् उपालब्धुम् आहूतवान्।
- शिष्यः गुरोः आज्ञां पालयेत्।
- अतः पृच्छामि।
- अतएव श्रोतुम् इष्यते।
- निस्पृहत्यागिनः राजानं तृणम् इव मन्यन्ते।
- स्वयमेव देवः अवलोकितवान्।
- भवन्तः एव प्रोत्साह्य वृषलं कोपितवन्तः।
- सुगाङ्गप्रासादस्य उपरि स्थितान् प्रदेशान् संस्कुर्वन्तु।
- पुष्पमालाभिः स्तम्भाः अलङ्क्रियन्ताम्।
उत्तरम्-
- प्रभुभिः निष्प्रयोजनम् अधिकारिभिः न आहूयन्ते।
- (भवता) वयम् उपालब्धुम् आहूताः।
- शिष्येण गुरोः आज्ञा पालनीया।
- अतः पृच्छ्यते।
- अतएव श्रोतुमिच्छामि।
- निस्पृहत्यागिभिः राजा तृणम्ः इव मन्यते।
- स्वयमेव देवेन अवलोकितम्।
- भवद्भिः एव प्रोत्साहय वृषलः कोपितः।
- सुगाङ्गप्रासादस्य उपरि स्थिताः प्रदेशाः संस्क्रियन्ताम्।
- पुष्पमालाभिः स्तम्भान् अलङ्कुर्वन्तु।
7. पाठात् तां पंक्ति चित्वा लिखत यया ज्ञायते-
- चाणक्यः आचार्यः आसीत्।
- चाणक्यः स्वाभिमानी आसीत्। सः कस्मादपि न बिभेति स्म।
- चन्द्रगुप्तः धर्मवृत्तिपरकः आसीत्।
- राक्षसः नाम नन्दस्य मन्त्री चाणक्येन सह स्पर्धा कर्तुम् इच्छति स्म।
- चाणक्यस्य गृह जीर्णकुटीरम् इव आसीत्।
- कञ्चुकी चाणक्यात् बिभेति स्म।
- चाणक्यः प्रजायाः धनस्य अपव्ययं सोढुं न समर्थः।
- चन्द्रगुप्तः चाणक्यस्य राज्यकार्येषु हस्तक्षेपेण राज्यं बन्धनम् इव मन्यते स्म।
उत्तरम्-
- आर्य! आचार्यचाणक्यं द्रष्टुम् इच्छामि।
- उपालब्धुं तर्हि वयम् आहूताः। प्रथमं ममापि तव आज्ञायाः उल्लंघनम् एव।
- आर्य वैहीनरे! आभ्यां वैतालिकाभ्यां सुवर्णशतसहस्नं दापय। अहो, राज्यं हि नाम धर्मवृत्तिपरकस्य नृपस्य कृते महत् कष्टदायकम्।
- कथं स्पर्धते मया सह दुरात्मा राक्षस:?
- अत्र शुष्यमाणैः समिद्भिः अतिनमितः छदिप्रान्तः जीर्णाः भित्तयः।
- आर्य, देवेन एव अहम् आर्यस्य चरणयोः प्रेषितः।
- किम् अस्थाने महान् प्रजाधनापव्ययः?
- आर्येण एव सर्वत्र निरुद्धचेष्टस्य मे बन्धम् इव राज्यम्, न राज्यम् इव।
8. अधोलिखितानि कथनानि क: क प्रति कथयति-
पङ्क्तय: | कः | कम् |
(क) किम् अस्थाने महान् प्रजाधनापव्यययः। | .................. | .................. |
(ख) शान्तं पाप शान्तं पापम्। | .................. | .................. |
(ग) नहि नहि विज्ञापयितुम्। | .................. | .................. |
(घ) चन्दनवारिणा भूमिं सिञ्चन्तु। | .................. | .................. |
(ङ) आर्य! इदम्। अनुष्ठीयते देवस्य शासनम् इति। | .................. | .................. |
(च) इत इतो देवः। | .................. | .................. |
उत्तरम्-
पङ्क्तय: | कः | कम् |
(क) किम् अस्थाने महान् प्रजाधनापव्यययः। | चाणक्यः | राजानम् वृषलम् |
(ख) शान्तं पापं शान्तं पापम्। | राजा | चाणक्यम् |
(ग) नहि नहि विज्ञापयितुम्। | राजा | चाणक्यम् |
(घ) चन्दनवारिणा भूमिं सिञ्चन्तु। | कञ्चुकी | प्रासादाधिकृतान् पुरुषान् |
(ङ) आर्य! इदम्। अनुष्ठीयते देवस्य अनुशासनम्। | प्रासादाधिकृताः पुरुषाः | कञ्चुकीम् |
(च) इत इतों देवः। | कञ्चुकी | राजानम् |
9. अत्र चाणक्यगृहस्य वर्णनं अस्ति। अस्मिन् वर्णने एकं वाक्यं अशुद्धम् अस्ति, तत् चिह्नीकुरुत-
- गृहस्य भित्तयः जीर्णाः आसन्। ( ........................... )
- एकस्मिन् कोणे गोमयस्य उपलानां भेदनार्थं प्रस्तरखण्डम् आसीत्। ( ........................... )
- छात्रैः आनीतानां दर्भाणां संहतिः आसीत्। ( ........................... )
- गृहस्य छदिप्रान्तः अतिनिमितः आसीत्। ( ........................... )
- राजाधिराजमन्त्रिकृते यथोचिताः विभूतयः आसन्। ( ........................... )
उत्तरम्-
- शुद्धम्
- शुद्धम्
- शुद्धम्
- शुद्धम्
- अशुद्धम्।
10. निम्नप्रश्नानाम् उत्तराणि समुचितशब्तदे लिखत -
- कौमुदीमहोत्सवः कस्य अाज्ञया आघोषितः आसीत्? ...........................
- कः चन्द्रगुप्तस्य राज्यम् आक्रान्तुम् उद्यतः भवति? ...........................
- मलयकेतुः किमर्थं क्रुद्धः आसीत्? ...........................
- कस्य संस्कारः अपेक्षित आसीत्? ...........................
- चाणक्यः कं 'वृषल' इति सम्बोधयति? ...........................
- वैहीनरिः कस्य नाम आसीत्? ...........................
- चाणक्यस्य मतानुसारं कस्य चिन्ता गरीयसी? ...........................
उत्तरम्-
- कौमुदीमहोत्सवः चन्द्रगुप्तस्य आज्ञया आघोषितः आसीत्।
- मलयकेतुः चन्द्रगुप्तस्य राज्यम् आक्रान्तुम् उद्यतः भवति।
- मलयकेतुः पितृवधात् क्रुद्धः आसीत्।
- सुगाङ्गप्रासादस्य उपरि स्थितस्य प्रदेशस्य संस्कारः अपेक्षित आसीत्।
- चाणक्यः चन्द्रगुप्तं 'वृषल' इति सम्बोधयति।
- वैहीनरिः कञ्चुकिनः नाम आसीत्।
- चाणक्यस्य मतानुसार राष्ट्रस्य चिन्ता गरीयसी।