बुद्धिर्बलवती सदा - CBSE Test Papers
CBSE Test Paper 01
Ch-2 बुद्धिर्बलवती सदा
Ch-2 बुद्धिर्बलवती सदा
- अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गुहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्ट्यात् पुत्रौ चपेटया प्रहृत्य जगाद-"कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।"- एकपदेन उत्तरत-
- राजसिंहः कुत्र वसतिस्म?
- राजसिंह कः आसीत्?
- पूर्णवाक्येन उत्तरत-
- सा पुत्रौ चपेटया प्रहृत्य किम् जगाद?
- भाषिककार्यम्-
- 'जगाद् इति क्रियापदस्य कर्तृपदं किम्?
(क) सा
(ख) अगच्छन्तम्
(ग) चपेटया
(घ) तावत् - 'अयम्' पदं कस्मै प्रयुक्तम्?
(क) व्याघ्राय
(ख) शृगालाय
(ग) राजपुत्राय
(घ) कलह - 'भार्या' इतिपदस्य विशेषणपदं किम्?
(क) तस्य
(ख) चालिता
(ग) बुद्धिमती
(घ) चपेटया
- 'जगाद् इति क्रियापदस्य कर्तृपदं किम्?
- एकपदेन उत्तरत-
- मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत।
मञ्जूषा-भयात्, बुद्ध्या, बुद्धिमान्, विमुक्ता, मह्यम्, त्रयं, वद, एकम् - निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्।।
अन्वयः-सा भामिनी निज (i)__________ व्याघ्रस्य भयात् (ii)_________ लोके अन्यः अपि (iii)_________ (निजबुद्ध्या) महतो (iv)___________ मुज्यते। - रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना।।
इत्युक्ता धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः।।
अन्वयः- रे रे धूर्त पुरा त्वया (i)___________ व्याघ्र (ii)_________ दत्तम्। विश्वास्य (अपि) अद्य (iii)___________ आनीय कथं यासि इति अधुना (iv)__________।
- निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
- पुत्रौ व्याघ्रक्षणाय कलहं कुरुथः।
- माम् निजगले बद्ध्वा चल सत्वरम्।
- परं प्रत्युपन्नमति यस जम्बुकम् उवाच।
- पुरा त्वया मह्यम् त्रय व्याघ्र दत्तम्।
- स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
- बुद्धिमती पितुर्गुहं प्रति चलिता।
- सा धार्ष्ट्यात् पुत्रौ चपेटया जगाद।
- मार्गे सा एकं व्याघ्रं ददर्श।
- सा व्याघ्रमागच्छन्तं दृष्ट्वा उवाच।
- अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
- कथम् एकैकशः व्याघ्रभक्षणाय कलहं कुरुथः।
- कश्चित् धूर्तः शृगालः हसन्नं अवदत्।
- त्वम् मानुषादपि बिभेषि।
- तस्यद्वभार्या बुद्धिमती पुत्रयोपेता पितृर्गृहं प्रति चलित।
- भवान् कुतः भयात् पलायितः।
- तौ एव विभज्य भुज्यताम्।
- व्याघ्रः भयाकुलचित्तो नष्टः।
- बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
CBSE Test Paper 01
Ch-2 बुद्धिर्बलवती सदा
Ch-2 बुद्धिर्बलवती सदा
Answer
- (i) देउल
(ii) राजपुत्रः - (i) सा पुत्रौ चपेटया प्रहृत्य जगाद-कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयम् एकः तावत् विभज्य भुज्यताम्/पश्चाद् अन्यो द्वितीयः कश्चित् लक्षयते।
- (i) (क) सौ
(ii) (क) व्याघ्राय
(iii) (ग) बुद्धिमती
- (i) देउल
- (i) बुद्ध्या (ii) विमुक्ता (iii) बुद्धिमान् (iv) भयात्
- (i) त्रयं (ii) मह्यम् (iii) एकम् (iv) वद
- i. किमर्थम्, ii. कुत्र, iii. कीदृशी, iv. केन
- i. कम्, ii. कस्मात्, iii. कम्, iv. का
- तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितृर्गृहं प्रति चलिता।
- कथम् एकैकशः व्याघ्रभक्षणाय कलहं कुरुथः।
- तौ एव विभज्य भुज्यताम्।
- व्याघ्रः भयाकुलचित्तो नष्टः।
- कश्चित् धूर्तः शृगालः हसन्नं अवदत्।
- भवान् कुतः भयात् पलायितः।
- त्वम् मानुषादपि बिभेषि।
- बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।