विचित्रः साक्षी - CBSE Test Papers

CBSE Test Paper 01
Ch-8 विचित्रः साक्षी

  1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। 
    आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-‘रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मजूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे" इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।
    1. एकपदेन उत्तरत-
      1. आरक्षी कीदृशः आसीत्?
      2. अभियुक्तः कीदृशः आसीत्?
    2. पूर्णवाक्येन उत्तरत-
      1. अभियुक्तस्य क्रन्दनं श्रुत्वा प्रसन्नः आरक्षी तम् किम् उवाच?
    3. भाषिककार्यम्- 
      1. प्रस्थितौ इति क्रियापदस्य कर्तृपदं किम्?
        (क) वहन्तौ
        (ख) उभौ
        (ग) प्रस्थितौ
        (घ) काष्ठपटले
      2. 'प्रसन्नः' इत्यर्थे किं पदं प्रयुक्तम्?
        (क) मुदितः
        (ख) निशम्य
        (ग) दुष्करम्
        (घ) अहम्
      3. ‘सुपुष्टदेहः' इतिपदस्य विपरीतपदं गद्यांशे किम् प्रयुक्तम्?
        (क) बारितः
        (ख) कृशकायः
        (ग) निराम्यः
        (घ) क्रन्दनः
  2. अधोलिखित श्लोकानाम् भावर्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्।
    दुष्कराष्यपि कर्माणि मतिवैभवशालिनः।
    नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते।।
    भावार्थः- अस्यभावोऽस्ति यत् बुद्धि (i)_______ युक्ताः जनाः उत्तम् (ii)______ युक्तेः च आधारं नीत्वा (iii)_______ अपि कार्याणि लीलया एव (iv)________ तेषुते कदापि कठिनतामपि न अनुभवन्ति।
    मञ्जूषा- प्रकुर्वन्ति, धनेन, कठिनतमानि, नीतेः
  3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. रक्षापुरुषः अतिथिम् कारागृहे प्राक्षिपत्।
    2. आरक्षी अतिथिम् न्यायालयं नीतवान्।
    3. न्यायाधीशः विवरणं श्रुतवान्।
    4. प्रमाणाभावात् न्यायाधीशः निर्णेतुं नाशक्नोत्।
  4. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
    1. तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः।
    2. न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
    3. न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुमादिष्टौ।
    4. न्यायाधीशः प्रामाणाभावत् निर्णतुम् नाशक्नोत्।
    5. स शवः प्रावारकमपसार्यन्यायाधीशम् सत्यं निवेदितवान्।
    6. अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
    7. न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानमुक्तवान्।
    8. न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
CBSE Test Paper 01
Ch-8 विचित्रः साक्षी

Answer
    1. (i) पुष्टदेहः
      (ii) कृशकायः
    2. (i) अभियुक्तस्य क्रन्दनं श्रुत्वा प्रसन्न आरक्षी तम् उवाच-'रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व अस्मिन! चौर्याभियोगे त्वं वर्षत्रस्य कारादण्डं लप्स्यसे।"
    3. (i) (ख) उभौ
      (ii) (क) मुदितः
      (iii) (ख) कृशकायः
  1. i. धनेन, ii. नीतेः, iii. कठिनतमानि, iv. प्रकुर्वन्ति
  2. i. कम्, ii. कुत्र, iii. कः, iv. कस्मात्
    1. न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
    2. न्यायाधीशः प्रामाणाभावत् निर्णेतुम् नाशक्नोत्।
    3. अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
    4. न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
    5. तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः।
    6. न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुमादिष्टौ।
    7. स शवः प्रावारकमपसार्यन्यायाधीशम् सत्यं निवेदितवान्।
    8. न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।