सूक्तयः - CBSE Test Papers

CBSE Test Paper 01
Ch-9 सूक्तयः

  1. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
    वाक्पटुर्धैर्यवान् मन्त्री सभायामप्यकातरः।
    स केनापि प्रकारेण परैर्न परिभूयते।।
    1. एकपदेन उत्तरत-
      1. कः परैः न परिभूयते?
      2. अत्र 'सः' पदम् कस्मै प्रयुक्तम्?
    2. पूर्णवाक्येन उत्तरत- 
      1. मन्त्री कीदृशः भवेत्?
    3. भाषिककार्यम्-
      1. 'तिरस्क्रियते' इत्यर्थे अत्र किं पदं प्रयुक्तम्?
        (क) भूयते
        (ख) अपमान्यते
        (ग) अवमान्यते
        (घ) परिभूयते
      2. 'न कातरः' इति स्थाने किं पदं प्रयुक्तम्?
        (क) अनकातरः
        (ख) आकातरः
        (ग) अकातरः
        (घ) कातरः
      3. 'परिभूयते' इति पदे का मूलधातुः?
        (क) भू
        (ख) भूय
        (ग) भूयस्
        (घ) भूयः
  2. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. विद्या एव नेत्रम् वर्तते।
    2. विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।
    3. अन्येषां वदने नाममात्रमेव नेत्रे स्तः।
    4. विद्याहीनाः नेत्रहीनाः इव भविन्त।
  3. अधोलिखित श्लोकानाम् भावर्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्। 
    त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
    परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।
    भावार्थः- अस्य भावोऽस्ति यत्-यः नरः सत्याम् धर्मयुक्ताम् (i)________ त्यक्त्वा (ii)_________ वाचम् वदेत् सः (iii)_________ पक्वं फलं त्यक्त्वा (iv)_________ फलम् खादति अर्थात् तस्य नरस्य वाण्याम् सरसता मधुरता च न भवति।
    मञ्जूषा- कठोरां, वाणीं, अपक्वं, मूर्खबुद्धिः
  4. अधोलिखित श्लोकानाम् भावर्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्।
    विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
    अन्येषां वदने ये तु ते चक्षुनामनी मते।।
    भावार्थः- विद्या एव नरस्य (i)________ अस्ति जनाः अनया एवं संसारे सर्वविधं व्यवहारं कर्तुं समर्थाः भवन्ति। अतः अस्मिन् संसारे केवलं (ii)_________ ज्ञानिनः विचारशीलाः एव (iii)_________ कथिताः। अन्येषां विद्यारहितानाम्। (iv)________ तु ये चक्षुषी भवतः ते तु नाममात्रम् एव। अतः अस्माभिः सर्वथा विद्या प्राप्त्यर्थम् एव प्रयतनीयम्।
    मञ्जूषा- आनने, विद्वांसः, नेत्रम्, नेत्रवन्तः
  5. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. विमूढधीः अपक्वं फल भुङ्क्ते।
    2. मूर्खबुद्धिः धर्मप्रदाम् वाचं त्यजति।
    3. मूर्खः परुषां वाचं वदति।
    4. मूढ़ः पक्वं फलं परित्यजति।
CBSE Test Paper 01
Ch-9 सूक्तयः

Answer
    1. (i) अकातर मन्त्री
      (ii) मन्त्रिणे
    2. (i) मन्त्री वाक्पटुः, धैर्यवान् सभायाम् अकातरः च भवेत्।
    3. (i) (घ) परिभूयते
      (ii) (ग) अकातरः
      (iii) (क) भू
  1. i. का, ii. के, iii. के, iv. के
  2. i. वाणीं, ii. कठोरां, iii. मूर्खबुद्धिः, iv. अपक्वं
  3. i. नेत्रम्, ii. विद्वांसः, iii. नेत्रवन्तः, iv. आनने
  4. i. कः, ii. कीदृशीम्, iii. काम्, iv. किम्