अनुच्छेद लेखन - CBSE Test Papers

CBSE Test Paper 01
अनुच्छेद लेखन
  1. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया 'बालदिवस-समारोहः' इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
    मञ्जूषा- विद्यालये, अध्यापकाः, छात्राः, गतवर्षे, उत्साहेन मान्यते, पुरस्कारः, प्रथमम्, भाषणप्रतियोगिता, स्वागतम्।
  2. 'आदर्शः छात्रः' इति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
    मञ्जूषा- विद्यालयः, गुरुम्, सम्मानम्, प्रतिदिनम्, व्यवहारकुशलः, सत्यवादी, गुणनिपुणः, अध्ययने, पुस्तकानाम् आदरः।
  3. ‘रक्षाबन्धनपर्व' इति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
    मञ्जूषा- भ्रातुः, भगिनी, राखीबन्धनम्, करोति, आशीर्वादम्, उपहारम्, धनम्, प्रमुदितमनः सर्वे, देशे, भारतदेशे।
  4. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘प्रातः-भ्रमणम्' इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
    प्रातःकालः, मन्दः, पवनः, शीतलः, मनोहराणि दृश्याणिक, सर्वत्र, सर्वे, वृद्धाः, पुष्पाणि, बालकाः, उद्यानस्य, प्रकृतिवर्णनम्।
CBSE Test Paper 01
अनुच्छेद लेखन
Answer
  1. गतवर्षे अस्माकं विद्यालये बालदिवस-समारोहः अति उत्साहन मानितः। तदा छात्राणां विविधाः प्रतियोगिताः अभवन्। छात्राः शिक्षकाः च मिलित्वा मुख्यातिथेः स्वागतम् अकुर्वन्। एकः छात्रः प्रथम पुरस्कारम् अलभत। मुख्यातिथिः स्वभाषणे विद्यालयं प्राशंसत्।
  2. आदर्शः छात्रः व्यवहार कुशलः भवति। सः प्रतिदिनं गुरवे सम्मानं यच्छति। एवमेव सः गुणनिपुणः सत्यवादी च भवति। सः समये विद्यालयं गच्छति। तत्र सः पुस्तकानाम् अध्ययने समय-व्यतीतं करोति।
  3. रक्षाबन्धन पर्व सम्पूर्ण भारतदेशे उत्साहेन मान्यते। अस्मिन् पर्वणि भगिनी भ्रातुः हस्ते राखीबन्धनम् बध्नाति। प्रमुदितमनः भ्राता तस्यै उपहारं धनं वा यच्छति। भगिनी तस्मै आशीर्वादं यच्छति। इदं पर्व अतीव प्रेम्णः पर्व अस्ति।
  4. प्रातः भ्रमणम् अतीव स्वास्थ्यकरं वर्तते। प्रातः काले मन्दः शीतलः च पवनः वहति। सर्वत्र मनोहराणि दृश्याणि भवन्ति। वृद्धाः बालाः महिलाः च उद्याने भ्रमन्ति। उद्यानस्य वातावरणं शुद्धं भवति।