सौहार्दै प्रकृतेः शोभा - CBSE Test Papers

CBSE Test Paper 01
Ch-7 सौहार्दै प्रकृतेः शोभा

  1. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
    काकः- रे परभृत्! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
    गजः- समीपतः एवागच्छन् अरे! अरे! सर्वा वार्तां शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि। वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
    वानरः- अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छे विधूय वृक्षोपरि आरोहति।)
    1. एकपदेन उत्तरत- 
      1. काकः कस्य सन्ततिं पालयति?
      2. करुणापरः पक्षिसम्राट् कः?
    2. पूर्णवाक्येन उत्तरत-
      1. गजः आत्मानं विषये कि कथयति?
    3. भाषिककार्यम्- 
      1. ‘सर्वाम् वार्ताम्' अत्र विशेष्यपदं कि प्रयुक्तम्?
        (क) सर्वाम्
        (ख) सर्वाः
        (ग) वार्ताम्
        (घ) वार्त्ताः
      2. 'अहमेव योग्यः' अत्र अहम् पदं कस्मै प्रयुक्तम्?
        (क) काकाय
        (ख) पिकाया
        (ग) गजाय
        (घ) सिंहाय
      3. ‘पालयामि' इति क्रियापदस्य कर्तृपदं किम्?
        (क) तव
        (ख) अहम्
        (ग) संतति
        (घ) पिकः
  2. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- 
    1. सर्वेप्राणिनां जननी प्रकृतिमाता अस्ति।
    2. पिककाकयोः कोऽपिभेदः न भवति।
    3. काकानाम् ऐक्यं परिश्रमः च विश्वप्रथितम् अस्ति।
    4. वनस्य समीपे एका नदी वहति।
  3. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
    1. सिंहः क्रोधेन गर्जति अहम् वनराजः अस्मि्।
    2. बकः कथयति अहम् अविचलः ध्यानमग्नः अस्तः अहम् योग्यः।
    3. वानरः कथयति राजा तु रक्षकः भवति परं भवान् तू भक्षकः।
    4. सिंहस्य दुर्वस्थाम् दृष्ट्वा सर्वे जीवाः हसन्ति।
    5. मयूरः कथयति मम पिच्छानामपूर्वं सौन्दर्यम् अतः अहमेव योग्यः।
    6. पिकः कथयति अहम् मधुभाषिणी अतः अहमेव योग्यः।
    7. ततः काकं प्रवेशं कृत्वा कथयति अहमेव योग्यः।
    8. गजः कथयति अहं विशालकायः बलशाली पराक्रमी अतः अहम् योग्यः अस्मि।
  4. अधोलिखित श्लोकानाम् भावर्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्।
    स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
    उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।।
    भावार्थः- अस्य भावोदास्ति यत् काकः उलूकविषये सर्वान् (i)_________ वदति यत् इमम् भयङ्कर, स्वभावम्, अतीव (ii)________ निर्दयम् अप्रियवादिनम् च (iii)________ नृपं कृत्वा भवतां सर्वेषाम् कः (iv)_________ भविष्यति? अर्थात् कश्चिदपि न।
    मञ्जूषा- खगान्, लाभः, क्रोधिनम्, उलूकं
  5. अधोलिखितश्लोकानाम् अन्वयं मञ्जूषायाः उचित पदं चित्वा पूरयत्।
    मञ्जूषा- विप्लवेत्, नरपतिः, जलधौ, प्रजा, प्रियवादिनम्, भविष्यति, अतिउग्रं, नृपतिं
    1. यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
      अकर्णधारा जलधौ विप्लवेतेह नौरिव।।
      अन्वयः- यदि सम्यङ्नेता (i)________ न स्यात् ततः (ii)__________ अकर्णधारा (iii)___________ नौरिव इव (iv)__________।
    2. स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
      उलूकं नृपतिं कृतवा का नु सिद्धिर्भविष्यति।।
      अन्वयः- स्वभाव रौद्रम् (i)________ क्रूरम् (ii)________ उलूकं (iii)________ कृत्वा का नु (iv)_________ भविष्यति।।
CBSE Test Paper 01
Ch-7 सौहार्दै प्रकृतेः शोभा

Answer
    1. (i) पिकस्य
      (ii) काकः
    2. (i) गजः आत्मानं विषये कथयति यत् अहम् विशाल बलशाली, पराक्रमी च। मया सदृशः कोऽपि पराक्रमी नास्ति।
    3. (i) (ग) वार्ताम्
      (ii) (ग) गजाय
      (iii) (ख) अहम्
  1. i. का, ii. कयोः, iii. केषाम्, iv. कस्य
    1. सिंहस्य दुर्वस्थाम् दृष्ट्वा सर्वे जीवाः हसन्ति।
    2. सिंहः क्रोधेन गर्जति अहम् वनराजः अस्मि्।
    3. वानरः कथयति राजा तु रक्षकः भवति परं भवान् तू भक्षकः।
    4. ततः काकं प्रवेशं कृत्वा कथयति अहमेव योग्यः।
    5. पिकः कथयति अहम् मधुभाषिणी अतः अहमेव योग्यः।
    6. गजः कथयति अहं विशालकायः बलशाली पराक्रमी अतः अहम् योग्यः अस्मि।
    7. बकः कथयति अहम् अविचलः ध्यानमग्नः अतः अहम् योग्यः।
    8. मयूरः कथयति मम पिच्छानामपूर्वं सौन्दर्यम् अतः अहमेव योग्यः।
  2. i. खगान्, ii. क्रोधिनम्, iii. उलूकं, iv. लाभः
    1. (i) नरपतिः (ii) प्रजा (iii) जलधौ (iv) विप्लवेत्
    2. (i) अतिउग्रं (ii) प्रियवादिनम् (iii) नृपतिं (iv) भविष्यति