शुचिपर्यावरणम् - CBSE Test Papers

CBSE Test Paper 01
Ch-1 शुचिपर्यावरणम्

  1. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
    कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
    वाष्पयानमाला संधावति वितरन्ती ध्वानम्।।
    यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।।
    1. एकपदेन उत्तरत-
      1. के कज्जलमलिनं धूमं मुञ्चति?
      2. वाष्पयानमाला कि कुर्वन्ती संधावति?
    2. पूर्णवाक्येन उत्तरत-
      1. संसरणम् कठिनम् किमर्थम् भवति?
    3. भाषिककार्यम्- 
      1. ‘शतशकटीयानम्' कर्तृपदस्य क्रियापदं किम्?
        (क) धूम्रम्
        (ख) कज्जल
        (ग) मलिनम्
        (घ) मुञ्चति
      2. 'अनंताः' इति पदस्ये विशेष्य पदं किम्?
        (क) पक्तयः
        (ख) कठिनं
        (ग) संसरणम्
        (घ) यानानां
      3. 'चलनम्' इति क्रियापदस्य पर्यायपदं किम्?
        (क) संसरणम्
        (ख) कठिनम्
        (ग) ध्वानम्
        (घ) यानानाम्
  2. रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
    1. प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
    2. महानगरेषु, वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
    3. शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
    4. कविः मानवस्य जीवनस्य कामनां करोति।
  3. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत। (½×8=4)
    मञ्जूषा- जनेभ्यः, कलरव, रस, चल, जीवन, प्रस्तरतले, निसर्गे, समाविष्टा
    1. अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
      पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्।।
      चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्।। शुचि ...।।
      अन्वयः- बन्धो ! खगकुल (i)_________ गुञ्जितवनदेशम् (ii)_________ पुर–कलरव सम्भ्रमित (iii)_________ धृत सुख सन्देशम्। चाकचिक्यजालं जीवित (iv)__________ हरणम् न कुर्यात्।
    2. प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
      पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
      मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि ...।।
      अन्वयः- लतातरु गुल्माः (i)_________ न पिष्टाः भवन्तु। (ii)_________ पाषाणी सभ्यता (iii)_______ न स्यात्। (अहम्) मानवाय (iv)_________ कामये जीवन्मरणम् न।
  4. कथाक्रमानुसारं वाक्यानि पुनः लेखनीयानि-
    1. शुचि-पर्यावरणम् आवश्यकम् अस्ति।
    2. वायु-प्रदूषणम् भवति।
    3. शकटीयानम् धूमं मुञ्चति।
    4. महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
    5. पर्यावरणम् प्रदूषितम् भवति।
    6. शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
    7. महानगरेषु चलनम् कठिनम् भवति।
    8. वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
  5. कथाक्रमानुसारं वाक्यानि पुनः लेखनीयानि-
    1. अमुना दुर्दान्तैः दशनौः जनग्रसनम् न स्यात्।
    2. महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
    3. चक्रम सर्वदा वक्रम् भ्रमति।
    4. अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
    5. अस्मिन् संसारे जीवितं कठिनं अस्ति।
    6. अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
    7. चक्रम् मनः शोषयति तनुः च पेषयति।
    8. शुचि-पर्यावरणम् आवश्यकम् अस्ति।
CBSE Test Paper 01
Ch-1 शुचिपर्यावरणम्

Answer
    1. (i) शतशकटीयानम्
      (ii) ध्वानम्
    2. (i) अनन्ताः यानानां पंक्तयः अतः संसरणम् कठिनम् भवति।
    3. (i) (घ) मुञ्चति
      (ii) (क) पक्तयः
      (iii) (क) संसरणम्
  1. i. कुत्र, ii. केषु, iii. किम्, iv. कस्य
    1. (i) कलरव (ii) चल (iii) जनेभ्यः (iv) रस
    2. (i) प्रस्तरतले (ii) निसर्गे (iii) समाविष्टा (iv) जीवनं
    1. शकटीयानम् धूमं मुञ्चति।
    2. शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
    3. वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
    4. महानगरेषु वाहनानाम् अन्नताः पङ्क्तयः धावन्ति।
    5. वायु-प्रदूषणम् भवति।
    6. महानगरेषु चलनम् कठिनम् भवति।
    7. पर्यावरण प्रदूषितम् भवति।
    8. शुचि-पर्यावरणम् आवश्यकम् अस्ति।
    1. अस्मिन् संसारे जीवितं कठिनं अस्ति।
    2. महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
    3. चक्रम् मनः शोषयति तनुः च पेषयति।
    4. चक्रम सर्वदा वक्रम् भ्रमति।
    5. अमुना दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
    6. अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
    7. अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
    8. शुचि-पर्यावरम् आवश्यकम् अस्ति।