व्यायामः सदा पथ्यः - CBSE Test Papers

CBSE Test Paper 01
Ch-3 व्यायामः सदा पथ्यः

  1. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
    श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता।
    आरोग्यं चापि परमं व्यायामादुपजायते।।
    1. एकपदेन उत्तरत-
      1. उष्णशीतादीनाम् सहिष्णुता कथम् जायते?
      2. श्रमेण किम् भवति?
    2. पूर्णवाक्येन उत्तरत-
      1. शरीर व्यायामात् किं किमुपजायते?
    3. भाषिककार्यम्-
      1. 'ताप' इत्यर्थे किम् पदं अन्त प्रयुक्तम्?
        (क) शीतः
        (ख) उष्णः
        (ग) आरोग्यः
        (घ) श्रमः
      2. ‘निरोग्यम्' इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम्?
        (क) व्यायामम्
        (ख) परमम्
        (ग) आरोग्यम्
        (घ) सहिष्णुता
      3. 'व्यायामादुपजायते' अस्मिन् पदे क्रियापदं किम् अस्ति?
        (क) व्यायाम
        (ख) व्यायामात्
        (ग) उपजायते
        (घ) दुपजायते
  2. अधोलिखितश्लोकानाम् अन्वयं मञ्जूषायाः उचित पदं चित्वा पूरयत्।
    मञ्जूषा- मांस, जरा, न, स्थिरीभवति, नोपसर्पन्ति, सुदर्शनम्, व्याधयो, च
    1. न चैनं सहसाक्रम्य जरा समधिरोहति।
      स्थिरीभवति मांसं च व्यायामाभिरतस्य च।।
      अन्वयः- चैनं (i)_________ सहसाक्रम्य (ii)_________ समधिरोहति च व्यायामाभिरतस्य (iii)___________ च (iv)__________।
    2. व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च।
      व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
      वयोरूपगुणैर्हीनमपि कुर्यात्सुदर्शनम्।।
      अन्वयः- व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य (i)_________ (ii)___________ वैनतेयमिवोरगाः (iii)__________ वयोरूपगुणैर्हीनमपि (iv)_________ कुर्यात्।
  3. अधोलिखित श्लोकानाम् भावर्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्।
    शरीरायासजननं कर्म व्यायामसंज्ञितम्।
    तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः।।
    भावार्थः- अस्यभावेऽस्ति यत् शरीरस्य (i)__________ कार्यं (ii)_______ कथ्यते। तं कृत्वा जनाः (iii)________ सुखं प्राप्नुवन्ति अतः समन्ततः शरीरस्य (iv)________ अवश्यमेव नित्यं कर्तव्यम्।
    मञ्जूषा- मर्दनम्, परिश्रमस्य, व्यायामः, दैहिकं
  4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. व्यायामं कृत्वा सुखं प्राप्नोति।
    2. व्यायामात् आरोग्यम् उपजायते।
    3. शरीरस्य मृजायै व्यायामः कर्त्तव्यः।
    4. गात्राणां सुविभक्तता व्यायामेन संभवति।
  5. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. मनुष्यस्य जीवने जरा सहसा आक्रम्यति?
    2. मनुष्यस्य मासं व्यायामेन परिपक्वं भवति।
    3. व्यायामिनः विरुद्धम् भोजनम् अपि परिपच्यते।
    4. व्यायामः वसन्तऋतौ अतीव लाभदायकः भवति।
CBSE Test Paper 01
Ch-3 व्यायामः सदा पथ्यः

Answer
    1. (i) व्यायामेन
      (ii) क्लमम्
    2. (i) श्रमक्लमपिपासोष्णं-शीतादीनां सहिष्णुता आरोग्यं चापि परमं व्यायामादुपजायते।
    3. (i) (ख) उष्णः
      (ii) (ग) आरोग्यम्
      (iii) (ग) उपजायते
    1. (i) जरा (ii) न (iii) मांसं (iv) स्थिरीभवति
    2. (i) च (ii) व्याधयो (ii) नोपसर्पन्ति (iv) सुदर्शनम्
  1. i. परिश्रमस्य, ii. व्यायामः, iii. दैहिकं, iv. मर्दनम्
  2. i. कम्, ii. किम्, iii. कः, iv. केन
  3. i. का, ii. कीदृशं, iii. के, iv. कदा