लौहतुला - प्रश्न-उत्तर
CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 8 लौहतुला
एनसीईआरटी प्रश्न-उत्तर
पाठः - 8 लौहतुला
अभ्यासः
- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
- देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
- स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
- जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
- स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् उवाच?
- धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ कथं सन्तोषितौ?
- देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् - यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः भवति।
- स्वतुलां याचमानं जीर्णधनं श्रेष्ठी अकथयत् - "भोः ! नास्ति सा, त्वदीया तुला मूषकैः भक्षिता।"
- जीर्णधनः गिरिगुहाद्वारं बृहत्-शिलया (बृहच्छिल्या) आच्छाद्य गृहमागतः।
- स्नानान्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं उवाच - 'नदीतटात् सः श्येनेन हृतः।'
- धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ परस्परं तुला-शिशु प्रदानेन सन्तोषितौ।
- स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
- जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
- श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
- श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्ममण्यम् अब्रह्ममण्यम्।
- सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
- कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
- श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
- श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्ममण्यम् किम्?
- सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?
- अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तं पूरयत-
- यत्र देशे अथवा स्थाने __________ भोगाः भुक्ता __________ विभवहीनः यः __________ स पुरुषाधमः।
- राजन् ! यत्र लौहसहस्त्रस्य __________ मूषकाः __________ तत्र श्येनः __________ हरेत् अत्र संशयः न।
- स्ववीर्यतः, तस्मिन्, वसेत्
- तुलां, खादन्ति, बालकं
- तत्पदं रेखाङ्कितं कुरुत यत्र-
- ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्त्रस्य, संबोध्य, आदाय - यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम् - यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्
- लौहसहस्त्रस्य
- सत्त्वरम्
- स्ववीर्यतः
- ल्यप् प्रत्ययः नास्ति
- सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत-
(क) श्रेष्ठ्याह = __________ + आह (ख) __________ = द्वौ + अपि (ग) पुरुषोपार्जिता = पुरुष + __________ (घ) __________ = यथा + इच्छया (ङ) स्नानोपकरणम् = __________ + उपकरणम् (च) __________ = स्नान + अर्थम् (क) श्रेष्ठ्याह = श्रेष्ठी + आह (ख) द्वावपि = द्वौ + अपि (ग) पुरुषोपार्जिता = पुरुष + उपार्जिता (घ) यथेच्छया = यथा + इच्छया (ङ) स्नानोपकरणम् = स्नान + उपकरणम् (च) स्नानार्थम् = स्नान + अर्थम् - समस्तपदं विग्रहं वा लिखत-
विग्रहः समस्तपदम् (क) स्नानस्य उपकरणम् = __________ (ख) _______ ________ = गिरिगुहायाम् (ग) धर्मस्य अधिकारी = __________ (घ) _______ ________ = विभवहीनाः उत्तराणि-विग्रहः समस्तपदम् (क) स्नानस्य उपकरणम् = स्नानोपकरणम् (ख) गिरेः गुहायाम् = गिरिगुहायाम् (ग) धर्मस्य अधिकारी = धर्माधिकारी (घ) विभवेन हीनाः = विभवहीनाः - यथापेक्षम् अधोलिखितानां शब्दानां सहायतया "लौहतुला" इति कथायाः सारांशं संस्कृतभाषया लिखत-
वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिनं प्रत्यागतः
गतः प्रदानम्
उत्तराणि- सारांशम्-
एकः जीर्णधनः नामकः वणिक्पुत्रः आसीत्। तस्य पार्श्वे एका लौहतुला आसीत्। निर्धनः भूत्वा सः लौहतुलां श्रेष्ठिनः गृहे निक्षेपभूतां कृत्वा विदेशं गतः। प्रत्यागतः सः श्रेष्ठिनं लौहतुलाम् अयाचत्। श्रेष्ठी उवाच - 'सा तु मूषकैः भक्षिता।' ततः सः श्रेष्ठिपुत्रेण सह स्नानार्थम् गतः। तेन श्रेष्ठिपुत्रः गिरिगुहायां निक्षिप्तः। श्रेष्ठिना पृष्टः सः अवदत् - 'बालः श्येनेन अपहृतः'। विवदमानौ तौ राजकुलं गतौ। धर्माधिकारिणः सर्वं वृत्तान्तं ज्ञात्वा परस्परं तुला-शिशु-प्रदानम् च कृत्वा तौ संतुष्टौ अकुर्वन्।