प्रत्यभिज्ञानम् - प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 7 प्रत्यभिज्ञानम्

अभ्यासः
  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. भटः कस्य ग्रहणम् अकरोत्?
    2. अभिमन्युः कथं गृहीतः आसीत्?
    3. भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति?
    4. अभिमन्युः स्वग्रहणे किमर्थम् वञ्चितः इव अनुभवति?
    5. कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
    उत्तराणि-
    1. भटः सौभद्रस्य (अभिमन्योः) गृहणम् अकरोत्।
    2. अभिमन्युः निश्शस्त्रेण पदातिना बाहुभ्याम् गृहीतः आसीत्।
    3. भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः नाम्ना सम्बोधितः सन् उत्तरं न ददाति। सतः आत्मनः तिरस्कारं मन्यते।
    4. अभिमन्युः अशस्त्रेण पदातिना गृहीतः। सः अशस्त्रे प्रहारं न अकरोत्। अतः सः स्वगृहणे वञ्चितः इव अनुभवति।
    5. पितृदर्शनात् अभिमन्यु गोग्रहणं सुखान्तं मन्यते।
  2. अधोलिखितवाक्येषु प्रकटितभावं चिनुत-
    1. भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
    2. कथं कथं ! अभिमन्युर्नामाहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
    3. कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
    4. धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वासः, शौर्यम्, उत्साहः)
    5. बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
    6. दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
    उत्तराणि-
    1. जिज्ञासा, विस्मयः
    2. स्वाभिमानः
    3. क्रोधः
    4. शौर्यम्
    5. आत्मविश्वासः
    6. हर्षः।
  3. यथास्थानं रिक्तस्थानपूर्तिं कुरुत-
    (क)खलु + एषः=___________
    (ख)बल + ___________ + अपि=बलाधिकेनापि
    (ग)विभाति + ___________=बिभात्युमावेषम्
    (घ)___________ + एनम्=वाचालयत्वेनम्
    (ङ)रुष्यति + एष=रुष्यत्येष
    (च)त्वमेव + एनम्=___________
    (छ)यातु + ___________=यात्विति
    (ज)___________ + इति=धनञ्जयायेति
    उत्तराणि-
    (क)खलु + एषः=खल्वेषः
    (ख)बल + अधिकेन + अपि=बलाधिकेनापि
    (ग)विभाति + उमावेषम्=बिभात्युमावेषम्
    (घ)वाचालयतु + एनम्=वाचालयत्वेनम्
    (ङ)रुष्यति + एष=रुष्यत्येष
    (च)त्वमेव + एनम्=त्वमेवेनम्
    (छ)यातु + इति=यात्विति
    (ज)धनञ्जनाय + इति=धनञ्जयायेति
  4. अधोलिखितानि वचनानि कः कं प्रति कथयति-
      कःकं प्रति
    यथा-आर्य, अभिभाषणकौतूहलं मे महत्बृहन्नलाभीमसेनम्
    (क)कथमिदानीं सावज्ञमिव मां हस्यते______________________
    (ख)अशस्त्रेणेत्यभिधीयताम्______________________
    (ग)पूज्यतमस्य क्रियतां पूजा______________________
    (घ)पुत्र ! कोऽयं मध्यमो नाम______________________
    (ङ)शान्तं पापम् ! धनुस्तु दुर्बलैः एव गृह्यते______________________
    उत्तराणि-
      कःकं प्रति
    यथा-आर्य, अभिभाषणकौतूहलं मे महत्बृहन्नलाभीमसेनम्
    (क)कथमिदानीं सावज्ञमिव मां हस्यतेअभिमन्युःबृहन्नलां भीमसेनं च
    (ख)अशस्त्रेणेत्यभिधीयताम्अभिमन्युःभीमसेनम्
    (ग)पूज्यतमस्य क्रियतां पूजाउत्तरःराजानम् (पितरम्)
    (घ)पुत्र ! कोऽयं मध्यमो नामभगवान्अभिमन्युम्
    (ङ)शान्तं पापम् ! धनुस्तु दुर्बलैः एव गृह्यतेभीमसेनःअभिमन्युम्
  5. अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
    1. वाचालयतु एनम् आर्यः।
    2. किमर्थं तेन पदातिना गृहीतः।
    3. कथं न माम् अभिवादयसि।
    4. मम तु भुजौ एव प्रहरणम्।
    5. अपूर्व इव ते हर्षो ब्रूहि केन विस्मितः?
    उत्तराणि-
    1. 'अभिमन्युम्' इति कृते
    2. 'भीमसेनेन' इति कृते
    3. 'राजानम्' इतिकृते
    4. 'भीमसेनस्य' इति कृते
    5. 'अभिमन्युग्रहणेन' इति कृते
  6. श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत-
    1. पार्थं पितरं मातुलं .............. च उद्दिश्य कृतास्त्रस्य तरुणस्य .............. युक्तः।
    2. कण्ठश्लिष्टेन .............. जरासन्धं योक्त्रयित्वा तत् असह्यं .............. कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
    3. रुष्यता .............. रमे। ते क्षेपेण न रुष्यामि, किं .............. अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
    4. पादयोः निग्रहोचितः समुदाचारः .............. । बाहुभ्याम् आहृतम् (माम्) .............. बाहुभ्याम् एव नेष्यति।
    उत्तराणि-
    1. जनार्दनम्, युद्धपराजयः
    2. बाहुना, कर्म
    3. भवता, उक्त्वा
    4. क्रियताम्, भीमः
  7. (क) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत-
    पदानि उपसर्गः
    यथा-आसाद्य-
    (i)अवतारितः-___________
    (ii)विभाति-___________
    (iii)अभिभाषय-___________
    (iv)उद्भूताः-___________
    (v)तिरस्क्रियते-___________
    (vi)प्रहरन्ति-___________
    (vii)उपसर्पतु-___________
    (viii)परिरक्षिताः-___________
    (ix)प्रणमति-___________
    उत्तराणि-
    पदानि उपसर्गः
    यथा-आसाद्य-
    (i)अवतारितः-अव
    (ii)विभाति-वि
    (iii)अभिभाषय-अभि
    (iv)उद्भूताः-उत्
    (v)तिरस्क्रियते-तिरः
    (vi)प्रहरन्ति-प्र
    (vii)उपसर्पतु-उप
    (viii)परिरक्षिताः-परि
    (ix)प्रणमति-प्र
    (ख) उदाहरणमनुसृत्य कोष्ठकदत्तपदेषु पञ्चमीविभक्तिं प्रयुज्य वाक्यानि पूरयत-
    यथा- श्मशानाद् धनुरादाय अर्जुनः आगतः। (श्मशान)
    1. पाठान् पठित्वा सः ___________ आगतः। (विद्यालय)
    2. ___________ पत्राणि पतन्ति। (वृक्ष)
    3. गङ्गा ___________ निर्गच्छति। (हिमालय)
    4. क्षमा ___________ फलानि आनयति। (आपण)
    5. ___________ बुद्धिनाशो भवति। (स्मृतिनाश)
    उत्तराणि-
    1. विद्यालयत्
    2. वृक्षात्
    3. हिमालयात्
    4. आपणात्
    5. स्मृतिनाशात्