भारतीवसन्तगीतिः - प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 1 भारतीवसन्तगीतिः

अभ्यासः
  1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
    1. कविः वीणापाणिं किं कथयति?
    2. वसन्ते किं भवति?
    3. सरस्वत्याः वीणां श्रुत्वा किं परिवर्तनं भवतु इति कवेः इच्छां लिखत।
    4. कविः भगवतीं भारतीं कस्याः नद्याः तटे (कुत्र) मधुमाधवीनां नतां पङ्कि्तम् अवलोक्य वीणां वादयितुं कथयति?
    उत्तराणि-
    1. कविः वीणापाणिं कथयति अये वाणि ! नवीनां वीणां निनादय।
    2. वसन्ते सरसाः रसालाः लसन्ति कोकिलाः च कूजन्ति।
    3. सरस्वत्याः वीणां श्रुत्वा भारतीयजनमानसे नवचेतनायाः सञ्चारः भवतु - इति कवेः इच्छा अस्ति।
    4. कविः भगवतीं भारतीं यमुनानद्याः तटे (कलिन्दात्मजायाः सवानीरतीरे) मधुमाधवीनां नतां पङ्कि्तम् अवलोक्य वीणां वादयितुं कथयति।
  2. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि दत्तानि। तानि चित्वा पदानां समक्षे लिखत-
    ‘क’ स्तम्भः‘ख’ स्तम्भः
    (i) सरस्वती(1) तीरे
    (ii) आम्रम्(2) अलीनाम्
    (iii) पवनः(3) समीरः
    (iv) तटे(4) वाणी
    (v) भ्रमराणाम्(5) रसालः
    उत्तराणि-
    ‘क’ स्तम्भः‘ख’ स्तम्भः
    (i) सरस्वती(4) वाणी
    (ii) आम्रम्(5) रसालः
    (iii) पवनः(3) समीरः
    (iv) तटे(1) तीरे
    (v) भ्रमराणाम्(2) अलीनाम्
  3. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत-
    1. निनादय
    2. मन्दमन्दम्
    3. मारुतः
    4. सलिलम्
    5. सुमनः
    उत्तराणि-
    1. निनादय - बजाओ - अये वाणि ! वीणां निनादय।
    2. मन्दमन्दम् - धीरे-धीरे - मन्दमन्दम् पवनः वहति।
    3. मारुतः - वायु - मारुतः वहति।
    4. सलिलम् - जल - सलिलम् शीतलम् भवति।
    5. सुमनः - फूल - सुमनः विकसति।
  4. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
    उत्तराणि- 
    आशय यह है कि 'ऋतूराज वसन्त के आगमन पर आमों पर बौर आ जाता है। कोयलें कूकने लगती हैं। ऐसे मनमोहक वातावरण में सरस्वती से प्रार्थना की गई है कि वह नयी वीणा बजाए एवम् सुन्दर नीतियुक्त कोमल गीत गाए ताकि जन-जीवन में नवीन प्रेरणा का सञ्चार हो।'
  5. अधोलिखितपदानां विलोमपदानि लिखत-
    1. कठोरम् - .......................
    2. कटु - .......................
    3. शीघ्रम् - .......................
    4. प्राचीनम् - .......................
    5. नीरसः - .......................
    उत्तराणि-
    1. कोमलम्
    2. मधुरम्
    3. चिरम्
    4. नवीनम्
    5. सरसः