सिकतासेतुः - प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 9 सिकतासेतुः

अभ्यासः
  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
    2. तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
    3. तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
    4. तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
    5. अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
    उत्तराणि-
    1. अनधीतः तपोदत्तः सर्वै कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितोऽभवत्
    2. तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽभवत्।
    3. तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माणचेष्टां दृष्ट्वा अहसत्।
    4. तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः सेतुनिर्माणसदृशः कथितः।
    5. अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।
  2. भिन्नवर्गीयं पदं चिनुत-
    यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।
    1. निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
    2. विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
    3. तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।
    उत्तराणि-
    1. चिन्तय
    2. करिष्यामि
    3. दुर्बुद्धिः
  3. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
    1. अलमलं तव श्रमेण।
    2. न अहं सोपानमार्गैरट्टमधिरोढुं विश्वसिमि।
    3. चिन्तितं भवता न वा।
    4. गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
    5. भवद्भिः उन्मीलितं मे नयनयुगलम्।
    उत्तराणि-
    1. पुरुषस्य (इन्द्रस्य) इति कृते।
    2. पुरुषः (इन्द्रः) इति कृते।
    3. पुरुषेण इति कृते।
    (ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?
    कथनानिकःकम्
    (i) हा विधे! किमिदं मया कृतम्?__________________
    (ii) भो महाशय! किमिदं विधीयते।__________________
    (iii) भोस्तपस्विन्! कथं माम् उपरुणत्सि।__________________
    (iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्?__________________
    (v) नाहं जाने कोऽस्ति भवान्?__________________
    उत्तराणि-
    कथनानिकःकम्
    (i) हा विधे! किमिदं मया कृतम्?तपोदत्तःआत्मानम् (विधिम्)
    (ii) भो महाशय! किमिदं विधीयते।तपोदत्तःपुरुषम्
    (iii) भोस्तपस्विन्! कथं माम् उपरुणत्सि।पुरुषःतपोदत्तम्
    (iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्?तपोदत्तःपुरुषम्
    (v) नाहं जाने कोऽस्ति भवान्?तपोदत्तःपुरुषम्
  4. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
    1. तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
    2. तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
    3. पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।
    4. तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
    5. तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
    6. गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
    उत्तराणि-
    1. तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽस्ति?
    2. कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्?
    3. पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते?
    4. तपोदत्तः किम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
    5. तपोदत्तः किमर्थम् गुरुकुलम् अगच्छत्?
    6. कुत्र गत्वैव विद्याभ्यासः करणीयः?
  5. उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत-
    विग्रहपदानिसमस्तपदानि
    यथा- संकल्पस्य सातत्येनसंकल्पसातत्येन
    (क) अक्षराणां ज्ञानम्____________
    (ख) सिकतायाः सेतुः____________
    (ग) पितुः चरणैः____________
    (घ) गुरोः गृहम्____________
    (ङ) विद्यायाः अभ्यासः____________
    उत्तराणि-
    विग्रहपदानिसमस्तपदानि
    यथा- संकल्पस्य सातत्येनसंकल्पसातत्येन
    (क) अक्षराणां ज्ञानम्अक्षरज्ञानम्
    (ख) सिकतायाः सेतुःसिकतासेतुः
    (ग) पितुः चरणैःपितृचरणैः
    (घ) गुरोः गृहम्गुरुगृहम्
    (ङ) विद्यायाः अभ्यासःविद्याभ्यासः
  6. उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत-
    समस्तपदानिविग्रहः
    यथा- नयनयुगलम्नयनयोः युगलम्
    (क) जलप्रवाहे__________
    (ख) तपश्चर्यया__________
    (ग) जलोच्छलनध्वनिः__________
    (घ) सेतुनिर्माणप्रयासः__________
    उत्तराणि-
    समस्तपदानिविग्रहः
    यथा- नयनयुगलम्नयनयोः युगलम्
    (क) जलप्रवाहेजलस्य प्रवाहे
    (ख) तपश्चर्ययातपसः चर्याय
    (ग) जलोच्छलनध्वनिःजलस्य उच्छलनध्वनिः
    (घ) सेतुनिर्माणप्रयासःसेतुनिर्माणस्य प्रयासः
  7. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत-
    1. यथा- अलं चिन्तया। (‘अलम्’ योगे तृतीया)
      i. ......................... ......................... (भय)
      ii. ......................... ......................... (कोलाहल)
    2. यथा- माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया)
      i. ........... ........... ........... ........... (गृह)
      ii. ........... ........... ........... ........... (पर्वत)
    3. यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (‘विना’ योगे द्वितीया)
      i. ........... ........... ........... ........... (परिश्रम)
      ii. ........... ........... ........... ........... (अभ्यास)
    4. यथा- सन्ध्यां यावत् गृहमुपैति। (‘यावत्’ योगे द्वितीया)
      i. ........... ........... ........... ........... (मास)
      ii. ........... ........... ........... ........... (वर्ष)
    उत्तर-
    1. i. अलं भयेन।
      ii. अलं कोलाहलेन।
    2. i. गृहम् अनु स गच्छति।
      ii. पर्वतम् अनु स गच्छति।
    3. i. परिश्रमं विनैव वैदुष्यं प्राप्तुमभिलषसि।
      ii. अभ्यासं विनैव वैदुष्यं प्राप्तुमभिलषसि।
    4. i.मासं यावत् गृहमुपैति।
      ii. वर्शन यावत् गृहमुपैति।