सौहार्दै प्रकृतेः शोभा - एनसीईआरटी प्रश्न-उत्तर

CBSE कक्षा - 10 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 7 सौहार्दं प्रकृतेः शोभा

अभ्यासः
  1. अधोलिखितप्रश्नानामुत्तराणि एकपदेन लिखत-
    1. वनराजः कैः दुरवस्थां प्राप्तः?
    2. कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
    3. काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
    4. कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
    5. बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
    6. मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
    7. अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति?
    8. अस्मिन्नाटके कति पात्राणि सन्ति?
    उत्तराणि-
    1. तुच्छजीवैः
    2. काकः
    3. आदर्शः
    4. गजः
    5. वराकान्
    6. पिच्छानुद्घाट्य
    7. उलूकस्य
    8. द्वादश
  2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-
    1. निःसंशयं कः कृतान्तः मन्यते?
    2. बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
    3. अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
    4. यदि राजा सम्यक् न भवति तदा प्रज्ञा कथं विप्लवेत?
    उत्तराणि-
    1. निःसंशयं सः एव कृतान्तः मन्यते यः पार्थिवरूपेण सदा परैः वित्रस्तान् पीड्यमानान् जीयान् न रक्षति।
    2. बकः वन्यजन्तूनां रक्षोपायान् शीतले जले बहुकालपर्यन्तं ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा चिन्तयितुं कथयति।
    3. अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति- "भोः भोः प्राणिनः। यूयम् सर्वे एव में सन्तति।। कथं मित्रः कलहं कुर्वन्ति। वस्तुतः सर्वे वन्यजीवनः अन्योन्याश्रिताः"।
    4. यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।
  3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
    1. सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
    2. गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
    3. वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
    4. मयूरस्य नृत्यं प्रकृतेः आराधना।
    5. सर्वे प्रकृतिमातरं प्रणमन्ति।
    उत्तराणि-
    1. कस्याम्
    2. केन
    3. कस्मै/किमर्थम्
    4. कस्याः
    5. काम्
  4. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां च समक्ष [न] इति लिखत-
    1. सिंह आत्मानं तुदन्तं वानरं मारयति।
    2. का-का इति बकस्य वनः भवति।
    3. काकपिकयोः वर्णः कृष्णः भवति।
    4. गजः लघुकायः, निर्बलः च भवति।
    5. मयुरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
    6. अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
    उत्तराणि-
    1. आम्
    2. आम्
    3. आम्
  5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
    1. काकः ___________ भवति।
    2. ____________ परभृत् अपि कथ्यते।
    3. बकः अविचलः __________ इव तिष्ठति।
    4. मयूरः ___________ इति नाम्नाऽपि ज्ञायते।
    5. उलूकः __________ पदनिर्लिप्त चासीत्।
    6. सर्वेषामेव महत्त्वं विद्यते _________।
    उत्तराणि-
    1. मेध्यामेध्यभक्षकः
    2. पिकः
    3. स्थितिप्रज्ञः
    4. अहिभुक्
    5. आत्मश्लाघाहीन
    6. यथासमयम्
  6. परिचयं पठित्वा पात्रस्य नाम लिखत-
    1. अहं शुण्डेन कमपि पोथयित्वा मारयितुं समर्थः।
    2. मम सत्यप्रियता सर्वेषां कृते उदाहरणस्वरूपा।
    3. मम पिच्छानामपूर्वं सौन्दर्यम्।
    4. अहं पराक्रमिणं भयंकरं वापि जन्तु पराजेतुं समर्थः।
    5. अहं वनराजः। कथं सर्वे मिलित्वा मां तुदन्ति?
    6. अहम् अगाधजलसञ्चारी अपि गर्वं न करोमि?
    7. अहं सर्वेषां प्राणिनां जननी अस्मि।
    8. एषः तु करालवक्त्रः दिवान्धः चास्ति।
    उत्तराणि-
    1. गजः
    2. काकः
    3. मयूरः
    4. वानरः
    5. सिंहः
    6. रोहितः
    7. प्रकृतिमाता
    8. उलूकः
  7. वाच्यपरिवर्तनं कृत्वा लिखत-
    उदाहरणम् -
     क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
    क्रुद्धेन सिंहेन इतस्ततः धाव्यते गर्ज्यते च।
    1. त्वया सत्यं कथितम्।
    2. सिंहः सर्वजन्तून् पृच्छति।
    3. काकः पिकस्या संततिं पालयति।
    4. मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
    5. सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
    6. सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
    उत्तराणि-
    1. त्वम् सत्यं कथितवान्।
    2. सिंहेन सर्वजन्तवः पृच्छयन्ते।
    3. काकेन पिकस्य संततिः पाल्यते।
    4. मयूरं विधाता एवं पक्षिराजं वनराजं वा कृतवान्।
    5. सर्वे खगाः कमपि खगम् एवं वनराजं कर्तुं इच्छन्ति स्म।
    6. सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।
  8. समासविग्रहं समस्तपदं वा लिखतु-
    1. तुच्छजीवैः ___________।
    2. वृक्षोपरि _________।
    3. पक्षिणा सम्राट् _________।
    4. स्थिता प्रज्ञा यस्य सः __________।
    5. अपूर्वम् __________।
    6. व्याघ्रचित्रकौ ________।
    उत्तराणि-
    1. तुच्छैः जीवैः/तुच्छः जीवः, तैः
    2. वृक्षस्य उपरि
    3. पक्षिसम्राट्
    4. स्थिप्रज्ञः
    5. न पूर्वम्
    6. व्याघ्रः च चित्रकः च
  9. प्रकृतिप्रत्ययविभागं कुरुत/योजयित्वा वा पदं रचयत-
    1. क्रुध् + क्त ____________।
    2. आकृष्य _____________।
    3. सत्यप्रियता ___________।
    4. पराक्रमी _____________।
    5. कूर्द् + क्त्वा ___________।
    6. शृण्वन् ______________।
    उत्तराणि-
    1. क्रुद्धः
    2. आ + कृष् + ल्यप्
    3. सत्यप्रिय + तल्
    4. पराक्रम + इन् (णिनि)
    5. कूर्दित्वा
    6. श्रू + शतृ