भ्रान्तो बालः - प्रश्न-उत्तर
CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 6 भ्रान्तो बालः
एनसीईआरटी प्रश्न-उत्तर
पाठः - 6 भ्रान्तो बालः
अभ्यासः
- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
- बालः कदा क्रीडितुं निर्जगाम?
- बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?
- मधुकरः बालकस्य आह्नानं केन कारणेन न अमन्यत?
- बालकः कीदृशं चटकम् अपश्यत्?
- बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
- खिन्नः बालकः श्वानं किम् अकथयत्?
- विघ्नितमनोरथः बालः किम् अचिन्तयत्?
- बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम।
- बालस्य मित्राणि विद्यालयगमनाय त्वरमाणा बभूवुः।
- मधुकरः मधुसंग्रहव्यग्रः आसीत्। अतः सः बालकस्य आह्वानं न अमन्यत।
- बालकः तृणशलाकादिकम् आददानं चटकम् अपश्यत्।
- बालकः चटकाय क्रीडनार्थं स्वादुभक्ष्यकवलानां लोभं दत्तवान्।
- खिन्नः बालकः श्वानं क्रीडासहायकम् भवितुम् अकथयत्।
- विघ्नितमनोरथः बालः अचिन्तयत् - अस्मिन् संसारे अहम् इव कोऽपि कालं न यापयति। अतः अहम् अपि स्वोचितं कार्यं करोमि।
- निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
उत्तराणि- भाव आशय यह है कि स्वामी अपने कुत्ते को पुत्रवत् बड़े प्यार से पालता है और वह कुत्ता भी अपने स्वामी के घर के रक्षा रूपी कर्त्तव्य से एक पल के लिए भी लापरवाह नहीं होता। अतः हमें भी अपने कर्त्तव्य के प्रति सतत जागरूक रहना चाहिए। - "भ्रान्तो बालः" इति कथायाः सारांशं हिन्दीभाषया आङ्ग्लभाषया वा लिखत।
उत्तराणि- 'भ्रान्तो बालः' कथा का सारांश - प्रस्तुत पाठ 'संस्कृत प्रौढ़पाठावलिः' नामक ग्रन्थ से सम्पादित कर लिया गया है। इस कथा में एक ऐसे बालक का चित्रण है, जिसका मन अध्ययन की अपेक्षा खेल-कूद में लगा रहता है। यहाँ तक कि वह खेलने के लिए पशु-पक्षियों तक का आवाहन (आह्वान) करता है किन्तु कोई उसके साथ खेलने के लिए तैयार नहीं होता। इससे वह बहुत निराश होता है। अन्ततः उसे बोध होता है कि सभी अपने-अपने कार्यों में व्यक्त हैं। केवल वही बिना किसी काम के इधर-उधर घूमता रहता है। वह निश्चय करता है कि अब व्यर्थ में समय गँवाना छोड़कर अपना कार्य करेगा। - स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत -
- स्वादूनि भक्ष्यकवलानि ते दास्यामि।
- चटकः स्वकर्मणि व्यग्रः आसीत्।
- कुक्कुरः मानुषाणां मित्रम् अस्ति।
- स महतीं वैदुषीं लब्धवान्।
- रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
- कीदृशानि भक्ष्यकवलानि ते दास्यामि?
- चटकः कस्मिन् व्यग्रः आसीत्?
- कुक्कुरः केषां मित्रम् अस्ति?
- स किम् लब्धवान्?
- कस्मात् मया न भ्रष्टव्यम् इति?
- "एतेभ्यः नमः" - इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
उत्तराणि-- देवाय नमः।
- गुरवे नमः।
- अध्यापकाय नमः।
- वासुदेवाय नमः।
- देवेभ्यः नमः।
- 'क' स्तम्भे समस्तपदानि 'ख' स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत-
‘क’ स्तम्भ ‘ख’ स्तम्भ दृष्टिपथम् पुष्पाणाम् उद्यानम् पुस्तकदासाः विद्यायाः व्यसनी विद्याव्यसनी दृष्टेः पन्थाः पुष्पोद्यानम् पुस्तकानां दासाः ‘क’ स्तम्भ ‘ख’ स्तम्भ दृष्टिपथम् दृष्टेः पन्थाः पुस्तकदासाः पुस्तकानां दासाः विद्याव्यसनी विद्यायाः व्यसनी पुष्पोद्यानम् पुष्पाणाम् उद्यानम् - (क) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत-
विशेषणम् विशेष्यम् (i) खिन्नः बालः - __________ __________ (ii) पलायमानं श्वानम् - __________ __________ (iii) प्रीतः बालकः - __________ __________ (iv) स्वादूनि भक्ष्यकवलानि - __________ __________ (v) त्वरमाणाः वयस्याः - __________ __________ विशेषणम् विशेष्यम् (i) खिन्नः बालः - खिन्नः बालः (ii) पलायमानं श्वानम् - पलायमानं श्वानम् (iii) प्रीतः बालकः - प्रीतः बालकः (iv) स्वादूनि भक्ष्यकवलानि - स्वादूनि भक्ष्यकवलानि (v) त्वरमाणाः वयस्याः - त्वरमाणाः वयस्याः - बालः ________________ क्रीडितुं निर्जगाम। (पाठशालागमनवेला)
- ________________ जगति प्रत्येकं स्वकृत्ये निमग्नो भवति। (इदम्)
- खगः ________________ नीडं करोति। (शाखा)
- अस्मिन् ________________ किमर्थं पर्यटसि? (निदाघदिवस)
- ________________ हिमालयः उच्चतमः। (नग)
- बालः पाठशालागमनवेलायाम् क्रीडितुं निर्जगाम।
- अस्मिन् जगति प्रत्येकं स्वकृत्ये निमग्नो भवति।
- खगः शाखायाम् नीडं करोति।
- अस्मिन् निदाघदिवसे किमर्थं पर्यटसि?
- नगेषु हिमालयः उच्चतमः।