स्वर्णकाकः - प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 2 स्वर्णकाकः

अभ्यासः
  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
    2. बालिकया पूर्वं किं न दृष्टम् आसीत्?
    3. रुदन्तीं बालिकां काकः कथम् आश्वासयत्?
    4. बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
    5. बालिका केन सोपानेन स्वर्णभवनम् आससाद?
    6. सा ताम्रस्थाल्याः चयनाय किं तर्कं ददाति?
    7. गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्।
    उत्तराणि-
    1. निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
    2. बालिकाया पूर्वं स्वर्णपक्षः रजतचञ्जुः स्वर्णकाकः न दृष्टः आसीत्।
    3. रुदन्तीं बालिकां काकः आश्वासयत् - (हे बालिके!) मा शुचः। सुर्योदयात्प्राक् ग्रामात् बहिः पिप्पल वृक्षम् अनु त्वया आगन्तवयम्। अहं तुभ्यं तण्डुलमूल्यम् दास्यामि।
    4. बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
    5. बालिका स्वर्णसोपानेन स्वर्णभवनम् आससाद।
    6. सा ताम्रस्थाल्याः चयनाय तर्कं ददाति यत् अहं निर्धना ताम्रस्थाल्याम् एव भोजनं करिष्यामि।
    7. गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् ताम्रमयं (सोपानम्) च प्राप्नोत्।
  2. (क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत-
    1. पश्चात् - ........................
    2. हसितुम् - ........................
    3. अधः- ........................
    4. श्वेतः - ........................
    5. सूर्यास्तः - ........................
    6. सुप्तः - ........................
    उत्तराणि-
    1. पूर्वम्
    2. रोदितुम्
    3. उपरि
    4. कृष्णः
    5. सूर्योदयः
    6. प्रबुद्धः
    (ख) संधि कुरुत-
    1. नि + अवसत् - ........................
    2. सूर्य + उदयः - ........................
    3. वृक्षस्य + उपरि - ........................
    4. हि + अकारयत् - ........................
    5. च + एकाकिनी - ........................
    6. इति + उक्त्वा - ........................
    7. प्रति + अवदत् - ........................
    8. प्र + उक्तम् - ........................
    9. अत्र + एव - ........................
    10. तत्र + उपस्थिता - ........................
    11. यथा + इच्छम् - .......................
    उत्तराणि-
    1. न्यवसत्
    2. सूर्योदयः
    3. वृक्षस्योपरि
    4. ह्यकारयत्
    5. चैकाकिनी
    6. इत्युक्त्वा
    7. प्रत्यवदत्
    8. प्रोक्तम्
    9. अत्रैव
    10. तत्रोपस्थिता
    11. यथेच्छम्
  3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
    1. ग्रामे निर्धना स्त्री अवसत्।
    2. स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
    3. सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
    4. बालिका निर्धनमातुः दुहिता आसीत्।
    5. लुब्ध वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
    उत्तराणि-
    1. ग्रामे कीदृशी स्त्री अवसत्?
    2. कं निवारयन्ती बालिका प्रार्थयत्त?
    3. कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
    4. बालिका कस्याः दुहिता आसीत्?
    5. लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?
  4. प्रकृति-प्रत्यय-संयोगं कुरुत-
    1. हस् + शतृ - ........................
    2. भक्ष् + शतृ - ........................
    3. वि + लोकृ + ल्यप् - ........................
    4. नि + क्षिप् + ल्यप् - ........................
    5. आ + गम् + ल्यप् - ........................
    6. दृश् + क्त्वा - ........................
    7. शी + क्त्वा - ........................
    8. वृद्ध + टाप् - ........................
    9. सुत + टाप् - ........................
    10. लघु + तमप् - ........................
    उत्तराणि-
    1. हसत्/हसन् (पुं.)
    2. भक्षयत्/भक्षयन् (पुं.)
    3. विलोक्य
    4. निक्षिप्य
    5. आगम्य/आगत्य
    6. दृष्ट्वा
    7. शयित्वा
    8. वृद्धा
    9. सुता
    10. लघुतमम् (नपुं.)
  5. प्रकृतिप्रत्यय-विभागं कुरुत-
    1. हसन्तम् - ........................
    2. रोदितुम् - ........................
    3. वृद्धा - ........................
    4. भक्षयन् - ........................
    5. दृष्ट्वा - ........................
    6. विलोक्य - ........................
    7. निक्षिप्य - ........................
    8. आगत्य - ........................
    9. शयित्वा - ........................
    10. सुता - ........................
    11. लघुतमम् - ........................
    उत्तराणि-
    1. हस् + शतृ (द्वि. ए.) (पुं.)
    2. रुद् + तुमुन्
    3. वृद्ध + टाप्
    4. भक्ष् + शतृ (पुं., प्र. ए.)
    5. दृश + क्त्वा
    6. वि + लोक् + ल्यप्
    7. नि + क्षिप् + ल्यप्
    8. आ + गम् + ल्यप्
    9. शी + क्त्वा
    10. सुत + टाप्
    11. लघु + तमप्
  6. अधोलिखितानि कथनानि कः/का, कं/कां च कथयति-
    कथनानिकः/काकं/काम्
    (क) पूर्वं प्रातराशः क्रियाताम्।....................................
    (ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।....................................
    (ग) तण्डुलान् मा भक्षय।....................................
    (घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।....................................
    (ङ) भो नीचकाक ! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।....................................
    उत्तराणि-
    कथनानिकः/काकं/काम्
    (क) पूर्वं प्रातराशः क्रियाताम्।स्वर्णकाकःनिर्धनां बालिकाम्
    (ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।माताबालिकाम्
    (ग) तण्डुलान् मा भक्षय।बालिकास्वर्णकाकम्
    (घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।स्वर्णकाकःबालिकाम्
    (ङ) भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।लुब्धा बालिकास्वर्णकाकम्
  7. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
    यथा- मूषकः बिलाद् बहिः निर्गच्छति। (बिल)
    1. जनः ................... बहिः आगच्छति। (ग्राम)
    2. नद्यः ................... निस्सरन्ति। (पर्वत)
    3. ................... पत्राणि पतन्ति। (वृक्ष)
    4. बालकः ................... विभेति। (सिंह)
    5. ईश्वरः ................... त्रायते। (क्लेश)
    6. प्रभुः भक्तं ................... निवारयति। (पाप)
    उत्तराणि-
    1. जनः ग्रामात् बहिः आगच्छति।
    2. नद्यः पर्वतात् निस्सरन्ति।
    3. वृक्षात् पत्राणि पतन्ति।
    4. बालकः सिंहात् विभेति।
    5. ईश्वरः क्लेशात् त्रायते।
    6. प्रभुः भक्तं पापात् निवारयति।