सोमप्रभम् - प्रश्न-उत्तर

CBSE कक्षा - 9 संस्कृत
एनसीईआरटी प्रश्न-उत्तर
पाठः - 3 सोमप्रभम्

अभ्यास
  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
    1. अध्यापिका सोमप्रभां कक्षायाः किमर्थं निष्कासितवती?
    2. विद्यालयात् गृहम् आगत्य सा (सोमप्रभा) किम् अपश्यत्?
    3. विमलायाः श्वसुरः श्वश्रूः च ताम् कुत्र किमर्थञ्च नयतः?
    4. सोमप्रभा कथम् मातुः त्राणम् अकरोत्?
    5. सोमप्रभायाः आयुः कति वर्षाणि आसीत्?
    6. अस्मिन् नाटके पुरुषनिरीक्षकस्य (आरक्षिणः) कर्तव्यपरायणता वर्णिताऽस्ति भ्रष्टाचारपरायणता वा?
    उत्तराणि-
    1. सोमप्रभायाः उपानहौ त्रुटितौ, पुस्तकमञ्जूषा च त्रुटिता। अतः अध्यापिका तां कक्षायाः निष्कासितवती।
    2. विद्यालयात् गृहम् आगत्य सा (सोमप्रभा) अपश्यत् यत् पितामहः पितामही च (तस्याः मातरम्) विमलां मारयतः।
    3. विमलायाः श्वसुरः श्वश्रूः च ताम् महानसं (पाकशालां) ज्वालयितुम् (च) नयतः।
    4. सोमप्रभायाः आयुः पञ्चवर्षाणि आसीत्।
    5. अस्मिन् नाटके पुरुषनिरीक्षस्य (आरक्षिणः) कर्तव्यपरायणता वर्णिताऽस्ति।
  2. निम्नलिखितस्य श्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
    क्षणे-क्षणे प्रवर्धते धनाय हिंस्त्रताखलै-
    र्विलोप्यतेऽतिनिर्दयं च जन्तुभिर्मनुष्यता।
    विभाजितं जगद्द्विधा निहन्यते च घातकै-
    रतीव दैन्यमागताऽस्ति साधुता मनुष्यता।।

    उत्तराणि- आशय - आशय यह है कि दहेज जैसी कुप्रथा की विकरालता अपनी पराकाष्ठा पर पहुँच चुकी है। मानवता हाहाकार कर रही है। अतः दहेज प्रथा की समाप्ति अपरिहार्य है।
  3. (क) अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत-
    1. पुत्रवधूः - ............................
    2. पदत्राणे - ............................
    3. पाकशालाम् - ............................
    4. शीघ्रं कुरु - ............................
    5. पात्राणि - ............................
    6. हन्तुम् इच्छा - ............................
    उत्तराणि-
    1. स्नुषा
    2. उपानहौ
    3. महानसम्
    4. त्वरस्व
    5. भाजनानि
    6. जिघांसा
    (ख) सन्धिं कुरुत-
    1. कलह + आडम्बरः - ............................
    2. प्रचलति + अत्र - ............................
    3. न + अस्ति - ............................
    4. प्रति + एव - ............................
    5. मया + एतत् - ............................
    6. तत्र + एव - ............................
    उत्तराणि-
    1. कलहाडम्बरः
    2. प्रचलत्यत्र
    3. नास्ति
    4. प्रत्येव
    5. मयैतत्
    6. तत्रैव
  4. उदाहरणमनुसृत्य प्रकृतिप्रत्ययसंयोगं कुरुत-
    यथा- 
    आ + गम् + ल्यप् - आगत्य
    सम् + पूज् + ल्यप् - सम्पूज्य
    1. अभि + गम् + ल्यप् - ............................
    2. वि + हा + ल्यप् - ............................
    3. निर् + गम् + ल्यप् - ............................
    4. वि + हस् + ल्यप् - ............................
    5. प्र + क्लृप् (कृष्) + ल्यप् - ............................
    6. सम् + बुध् + ल्यप् - ............................
    उत्तराणि-
    1. अभिगम्य/अभिगत्य
    2. विहाय
    3. निर्गत्य/निर्गम्य
    4. विहस्य
    5. प्रकल्प्य/प्रकृष्य
    6. सम्बुध्य
  5. अधोलिखितेषु पदेषु उपसर्गपदं चिनुत-
    1. परिहीयते - ............................
    2. सञ्जातः - ...........................
    3. अधिक्षिपति - ............................
    4. प्रत्युत्तरम् - ...........................
    5. प्रवर्धते - ............................
    6. विलोप्यते - ...........................
    7. उपचरामः - ............................
    8. उद्धृतवती - ...........................
    उत्तराणि-
    1. परि
    2. सम्
    3. अधि
    4. प्रति
    5. प्र
    6. वि
    7. उप
    8. उत्
  6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
    1. अद्य विद्यालयम् न गमिष्यामि।
    2. अनया दुष्टया चायभाजनानि त्रोटितानि।
    3. विमला आत्मत्राणाय प्रयतते।
    4. त्वम् सङ्कटात् माम् उद्धृतवती।
    5. त्वम् वेतनस्य गर्वम् उद्वहसि।
    उत्तराणि-
    1. अद्य कुत्र न गमिष्यामि।
    2. कया चायभाजनानि त्रोटितानि।
    3. विमला किमर्थं प्रयतते।
    4. त्वम् कस्मात् माम् उद्धृतवती।
    5. त्वम् कस्य गर्वम् उद्वहसि।
  7. घटनाक्रमानुसारं वाक्यानि पुनः लिखत -
    1. सोमप्रभा आरक्षिणः समीपम् अगच्छत्।
    2. विमलायाः श्वश्रूः ताम् कटुवचनैः आक्षिपति।
    3. सा आत्मत्राणाय प्रयत्नं करोति।
    4. विमलायाः श्वश्रूः श्वसुरः च ताम् ज्वालयितुम् महानसं नयतः।
    5. पुरुषनिरीक्षकः सोमप्रभया सह आगच्छति तस्याः त्राणं करोति।
    उत्तराणि-
    1. विमलायाः श्वश्रूः ताम् कटुवचनैः आक्षिपति।
    2. विमलायाः श्वश्रूः श्वसुरः च ताम् ज्वालयितुम् महानसं नयतः।
    3. सा आत्मत्राणाय प्रयत्नं करोति।
    4. सोमप्रभा आरक्षिणः समीपम् अगच्छत्।
    5. पुरुषनिरीक्षकः सोमप्रभया सह आगच्छति तस्याः त्राणं करोति।